This page has not been fully proofread.

दशकम् - ४६]
 
विश्वरूपप्रदर्शनवर्णनम् ।
 
१७७
 
-
 
तवेति । दधिघृतयोर्मोषे मोषणे घोषयोषाजनानां गोपस्त्रीणां मोषके त्वाये
रोषो द्रव्यनाशे शोकश्चाबकाशमास्पदं नाभजत । कस्मादित्यत्राह – हृदयमिति ।
मुषित्वापहृत्य । नन्वपहृतं हृदयं यत्र तत्र रोषशोकौ प्राप्नुयातामेव । तत्राह --
हर्षसिन्धाविति । यथा जलस्थे काष्ठे ज्वलनप्रवेशोऽशक्यः, तद्वद्धर्षसिन्धुस्थे हृदये
तद्विरुद्धयो रोषशोकयोरप्यनवकाश इति भावः ॥ १० ॥
 
* शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तवाहो त्वयि ।
चित्रं देव! शशी स ते करमगात् किं ब्रूमहे सम्पत-
ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराडूपताम् ॥ ११ ॥
 
* किं किं बतेदमिति संभ्रमभाजमेनं
ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनयमोहमयीं वितन्व-
नानन्दचिन्मय ! जगन्मय! पाहि रोगात् ॥ १२ ॥
इति कृष्णस्य बालक्रीडावर्णनं पञ्चचत्वारिंशं दशकं सद्विकम् ।
 
अयि देव! पुरा किल त्वाय स्वयमुत्तानशये स्तनन्धये ।
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ १ ॥
 
अयीति । अयि देव! क्रीडापर ! पुरातिशैशवे स्वयं साक्षादीश्वरे त्वयि
उत्तानशय ऊर्ध्वमुखशायिनि । स्तनं धयति पिवतीति स्तनन्धयः । परिजृम्भणतो
मुखविजृम्भणदशायां व्यपावृते विदारिते वदने आस्ये विश्वमचष्ट दृष्टवती । वल्लवी
यशोदा ॥ १ ॥
 
पुनरप्यथ वालकैः समं त्वयि लीलानिरते जगत्पते! ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ २ ॥
 
१.
 
'ति । न केवलं दधिघृतमोषणमेव कृतवान् तासां हृदयमपि मुषित्वा तच हर्षसिन्धौ
 
न्यधाः ॥' ग्. पाठः.
 
* पद्यद्वयमिदं क. पुस्तके परं दृश्यते । तत्रापि न व्याख्या दृश्यते ।
 
>