This page has been fully proofread once and needs a second look.

१७६
 
नारायणीये
 
भवन शुकविबिडालान् वत्सकांश्चानुधावन्

कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ ६ ॥
 

 
तदन्विति । आरात् समीपस्थासु निलयततिषु भवनान्तरेषु खेलन्

गच्छन् ॥ ६ ॥
 
[स्कन्धः - १०
 

 
गोपीनां भवदनुसरणैकचित्ततया गृहकृत्यादिष्वपि विस्मृतिर्जातेत्याह-
-
 
हलधरसहितस्त्वं यत्र यत्रोपयातो
 

विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
 

विगलितगृहकृत्या विस्मृतापत्यभृत्या
 

मुरहर ! मुहुरत्यन्ताकुला नित्यमासन् ॥ ७ ॥

 
गोपीनां नवनीतादिपणेन त्वं तद्दर्शनार्थं नर्तनाद्यपि कृतवानसीत्याह-
-
 
प्रतिनवनवनीतं गोपिकादत्तमिच्छन्

कलपदमुपगायन् कोमलं कापि नृत्यन् ।

सदययुवतिलोकैरर्पितं सर्पिरश्नन्
 

क्
वचन नवविपकंक्वं दुग्धमप्यापिस्त्वम् ॥ ८ ॥
 

 
मम खलु बलिगेहे याचनं जातमास्ता-

मिह पुनरबलानामग्रतो नैव कुर्वे ।

इति विहितमतिः किं देव! सन्त्यज्य याच्यां
ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ९ ॥
 

 
ममेति । मम बलिगेहे प्राग् याचनं जातम् । तत्तु बलेर्बलित्वादेव नास्माकं

दैन्यापादकमित्यास्तां खल्वेतत् । इह तद्विपरीतानामबलानामग्रतस्तन्न कुर्वे इति

विहितमतिर्निश्चितचित्तश्चारुणा विचित्रोपायरचितेन चोरणेन स्तेयकर्मणा ॥ ९ ॥
 

 
तव दधिघृतमोपेषे घोषयोपाषाजनाना-

मभजत हृदि रोषो नावकाशं न शोकः ।

हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
 

स मम शमय रोगान् वातगेहाधिनाथ ! ॥ १० ॥