This page has not been fully proofread.

दशकम् - ४५]
 
कृष्णस्य बालक्रीडावर्णनम् ।
 
अनुसरति जनौघे कौतुकव्याकुलाक्षे
 
किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
 
वलितवदनपद्मं पृष्ठतो दत्तदृष्टी
 
किमिव न विधार्थ कौतुकं वासुदेव ! ॥ ३ ॥
 
-
 
अन्विति । जनौघेऽनुसरति सति द्रवन्तौ वेगेन चरन्तौ ततो दूरस्थे जनौ-
घे वलितवदनपद्मं तिर्यक्कृतमुखपद्मं यथा तथा पृष्ठतो दत्तदृष्टी, किमिवेति अति-
शयन कौतुकं विदधाथे अजनयतमित्यर्थः ॥ ३ ॥
 
द्रुतगतिषु पतन्तावृत्थितौ लिप्तपने
 
दिवि मुनिभिरप: सस्मितं वन्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥ ४ ॥
 
१७५
 
द्रुतेति । द्रुतगतिषु वेगेन सञ्चरणेषु व्रजकर्दमे पतन्तौ दिवि द्रष्टुमागतैर्मु-
निभिरस्मानपङ्कीकर्तुं समर्थावेतौ स्वयं लिप्तपको अधःपतनभयेन यावाश्रयामस्तौ
स्वयं पतन्ताविति सस्मितम्, अहो भक्तपारतन्त्र्यमीश्वरयोरिति वन्द्यमानौ ॥ ४ ॥
 
स्नुतकुचभरमङ्के धारयन्ती भवन्तं
 
तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप ! मध्ये मुग्धहासाङ्कुरं ते
 
दशनमुकुलहृद्यं वीक्ष्य वक्रं जहर्ष ॥ ५ ॥
 
स्नुतेति । स्नुतं प्रसृतस्तन्यं कुचयुगं यस्मिन्, तरला कृपाकुला मतिर्य-
स्मिन् इति च क्रियाविशेषणम् । तथा भवन्तमके धारयन्ती या स्तन्यं ददाति, सा
यशोदा धन्यधन्या । हे कपटपशुप ! स्तनपानमध्ये ते दशनमुकुर्हृद्यं मुग्धो हा-
साङ्कुरो मन्दस्मितं यस्मिन् तद् वक्रं वीक्ष्य जहर्ष सन्तुष्टाभूत् ॥ १ ॥
 
तदनु चरणचारी दारकै: साकमारा-
त्रिलयततिषु खेलन् बालचापल्यशाली ।