This page has been fully proofread once and needs a second look.

दशकम् - ४५]
 
कृष्णस्य बालक्रीडावर्णनम् ।
 
अनुसरति जनौघे कौतुकव्याकुलाक्षे
 

किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
 

लितवदनपद्मं पृष्ठतो दत्तदृष्टी
 

किमिव न विधार्थथे कौतुकं वासुदेव ! ॥ ३ ॥
 
-
 

 
अन्विति । जनौघेऽनुसरति सति द्रवन्तौ वेगेन चरन्तौ ततो दूरस्थे जनौ-

घे लितवदनपद्मं तिर्यक्कृतमुखपद्मं यथा तथा पृष्ठतो दत्तदृष्टी, किमिवेति अति-

शयन कौतुकं विदधाथे अजनयतमित्यर्थः ॥ ३ ॥
 

 
द्रुतगतिषु पतन्तावृत्थितौ लिप्तपने
 
ङ्कौ
दिवि मुनिभिरप:ङ्कैः सस्मितं वन्द्यमानौ ।

द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ

मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥ ४ ॥
 
१७५
 

 
द्रुतेति । द्रुतगतिषु वेगेन सञ्चरणेषु व्रजकर्दमे पतन्तौ दिवि द्रष्टुमागतैर्मु-

निभिरस्मानपङ्कीकर्तुं समर्थावेतौ स्वयं लिप्तपकोङ्कौ अधःपतनभयेन यावाश्रयामस्तौ

स्वयं पतन्ताविति सस्मितम्, अहो भक्तपारतन्त्र्यमीश्वरयोरिति वन्द्यमानौ ॥ ४ ॥
 

 
स्नुतकुचभरमङ्के धारयन्ती भवन्तं
 

तरलमति यशोदा स्तन्यदा धन्यधन्या ।

कपटपशुप ! मध्ये मुग्धहासाङ्कुरं ते
 

दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥ ५ ॥
 

 
स्नुतेति । स्नुतं प्रसृतस्तन्यं कुचयुगं यस्मिन्, तरला कृपाकुला मतिर्य-

स्मिन् इति च क्रियाविशेषणम् । तथा भवन्तमङ्के धारयन्ती या स्तन्यं ददाति, सा

यशोदा धन्यधन्या । हे कपटपशुप ! स्तनपानमध्ये ते दशनमुकुलैर्हृद्यं मुग्धो हा-

साङ्कुरो मन्दस्मितं यस्मिन् तद् वक्त्रं वीक्ष्य जहर्ष सन्तुष्टाभूत् ॥ १ ॥
 

 
तदनु चरणचारी दारकै: साकमारा-
त्रि

न्नि
लयततिषु खेलन् बालचापल्यशाली ।