This page has not been fully proofread.


 
नारायणीये
 
[स्कन्धः - १.
 

 
प्रसङ्ग इति चेद्, न, विद्याविद्ययोर्भेदादुभयोपपत्तेः । तथाहि विद्या नाम विक्षेप-
शक्तिप्रधानेश्वरोपाधिः, ययेश्वरः सृष्ट्यादि करोति । अविद्या नामावरणशक्तिप्रधाना
जीवोपाधिः, ययेश्वरः सन्नपि जीवस्तत्कृतोपाधिभेदेन संसारी भवति । अतो जीवे-
श्वरयोरेकत्वेऽप्यविद्यया संसारो विद्ययाँ च तदभावो नानुपपन्नः । अनादित्वान्नि-
र्गुणत्वाञ्चेश्वरस्य जरामरणादिसांसारिकधर्माश्च न भवन्ति, यथा स्वप्नादुत्थितस्य
स्वाप्नाः कर्तृत्वभोक्तृत्वादय इत्यलमतिप्रसङ्गेन । ननु कर्तृत्वभोक्तृत्वादिरात्मनः
स्वाभाविको धर्मशत न कदाचिदपि तेन बियोगः स्यादित्याशङ्कयाह – काल
देशाबधिभ्यां निमुक्तमिति । कालतो योऽवधिर्देशतश्च, ताभ्यां निर्मुक्तं, विरहित-
मित्यर्थः । ततश्च व्योमबदमूर्तस्य कूटस्थस्य ब्रह्मणः क्रियादिसंयोगानुपपत्तेर्न कर्तृ-
त्वभोक्तृत्वे इत्यर्थः । नित्यत्वं च ब्रह्मणः कार्यप्रपञ्चस्योत्पत्तेः प्राक् पश्चादपि विद्य-
मानत्वम् । विभुत्वं च यथा मृत्सुवर्णादेर्घटकुण्डलादिषूपादानकारणत्वेनानुगमः,
तद्वत् सर्वोपादानस्य ब्रह्मणोऽपि सर्वत्र शरीरादौ कारणत्वेनानुस्यूतत्वात् सर्वव्या-
तत्वम् । अतोऽनेन जगत्कारणं ब्रह्मेति अयावल्लक्ष्यभावि तटस्थलक्षणमप्यर्थादुक्तं
वेदितव्यम् । एवं लक्षणद्वयसिद्धत्य वस्तुनः प्रमाणापेक्षायामाह - निगमेति ।
निगमा उपनिषदः, तसां शतसहस्रमिति बहुत्वाभिप्रायम् । बहुभिरुपनिषद्वाक्यै-
रित्यर्थः । अस्पष्टं यथा भवति तथा निर्भस्यमानमिति, उपक्रमोपसंहारादिभिर्लि-
ङ्गैस्तात्पर्येणे लक्षणया प्रतिपाद्यमानमित्यर्थः । यद्वा दृष्टमात्रेऽस्पष्टमिति सम्बन्धः।
वाक्यार्थज्ञाने सत्यपि विपरीतान्यथाभावनादि दिङ्मोहवत् सहसा न निवर्तते ।
अतः श्रवणमननादिना तन्निवृत्तावेव ब्रह्मज्ञानमनुभवपर्यवसाय्यवतिष्ठत इति
भावः । नन्वेवंभूतब्रह्मदर्शने सति किं फलं, तत्राह - पुनरुरुपुरुषार्थात्मकमिति ।
पुनः ब्रह्मज्ञानानन्तरमित्यर्थः । उरुः पुरुषार्थो मोक्षः । तस्य चोरुत्वं दुःखानुषङ्गा-
भावात् कालदेशानवच्छेदाच्च परिपूर्णत्वम्, इतरपुरुषार्थानां कर्मजन्यतया तदभा-
वात् । पुरुषार्थात्मकमिति । ब्रज्ञानसमनन्तरमेव ब्रह्म पुरुषार्थरूपेणावतिष्ठत
इत्यर्थः । एवं ब्रह्मभूतस्य न पुनरावृत्तिरित्यभिप्रायेण ब्रह्म विशिनष्टि -- नित्यमु
-
तमिति । नित्यमेव मुक्तं मायातत्कायपरागरहितम् । परमार्थतोऽद्वितीयस्यावि-
-
 
१. 'या त' क. पाठ:. २. 'क्तमिति वि' क. पाठ:. ३. 'ति या' ख. पाठ: ४. 'तेषां
श' ख. पाठ: ५. 'ण प्र' क. पाठ:. ६. 'हादिव' क. पाठ:. ७. 'ने किं' क. पाठः.
८. 'तू । ब्र' ख. पाठ:.