2023-04-12 09:34:29 by Padmavati
This page has been fully proofread once and needs a second look.
नारायणीये
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ! ॥ १० ॥
[स्कन्धः - १०
गर्ग इति । नन्दितैर्मुदितैर्नन्दादिभिर्नन्द्यमानो लाल्यमानो मम गदं रोगं
निर्गमय निराकुरु ॥ १० ॥
इति कृष्णस्य जातकर्मनामकरणवर्णनं
चतुश्चत्वारिंशं दशकम् ।
१. 'जौ' मूलपाठ:.
अयि स
किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलितचरणक[^१]ञ्जे मञ्जुमञ्जीरशिञ्जा-
श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ १ ॥
अयीति । पाणिजानुप्रचारैः पाणिद्वयेन जानुद्व
नलिन्दादिप्रदेशान्, एकत्र चिरमनवस्थानात् किमपि कञ्चित् कालं भूषयन्
चरणकञ्जे पादाम्बुजे मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजौ यतः, अतो वेगाच्चेरतुः ॥
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
वढ
वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरान्तव्यालगत्कङ्कणाङ्
मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥ २ ॥
मृद्विति । अन्तरान्तरा यत्किञ्चिदवलोक्य मृदु मृदु विहसन्तावत एवोन्मि-
षद्दन्तवन्तौ दृश्यमानकतिपयदन्तमुकुलौ । अङ्घ्रिद्वयाकर्षणे दृश्यौ ध्वजवज्राद्यङ्कि-
तत्वेन दर्शनीयौ पादाब्जदेशौ ययोः । भुजगलितेति भुजोपरिदेशाद् गलितत्वान्म-
णिबन्धलग्नकङ्कणैः सञ्जातपरभागौ युवां विश्वेषां नॄणां मतिमुच्चैरतिशयेनाहरतं
ज<flag>ह</flag>थुः ॥ २ ॥
[^१]. '<flag>ञ्जौ</flag>' मूलपाठः