This page has not been fully proofread.

दशकम् - ४४]
 
कृष्णस्य जातकर्मनामकरणवर्णनम् ।
 
१७३
 
अन्यानिति । अन्यांश्च वासुदेवादीन् व्याकुर्वन्नन्वर्थतया कथयन् प्राक्
कदाचिद् वसुदेवाज्जातोऽयं तव पुत्रः । तस्माद् वासुदेव इति चास्य नामास्तु ।
किञ्च मानुषानतिक्रम्य वर्तत इत्यतिमानुषानुभावं त्वां विष्णुमप्रकाशयन् जातक-
दृष्ट्या पित्रे नन्दाय न्यगददुक्तवान् ॥ ६ ॥
 
तदाह -
 
-
 
स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः ।
द्रुह्यति यः स तु नश्येदित्यवदत् ते महत्त्वमृषिवर्यः ॥ ७ ॥
 
स्त्रियतीति । यस्तव पुत्रे स्त्रियति यः कृष्णभक्तो भवति, स मायिकैः
शोकैर्न मुह्यति न जननमरणादिदुःखमनुभवति । तव पुत्राय द्रुह्यति यो यः कृष्णाद्
विमुखो भवति, स तु नश्येत् संसारी स्यादिति गूढार्थरूपं ते महत्त्वमृषिवर्योऽव-
ददित्यर्थः ॥ ७ ॥
 
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।
श्रोष्यसि सुबिमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ८ ॥
 
जेष्यतीति । अमलपदं निष्कलब्रह्म नेष्यति प्रापयिष्यति । अस्य तव पुत्रस्य
सुबिमलाः पापहराः कीर्तीरयं लोकः श्रोप्यतीति भवतो विभूतिमैश्वर्यम् ॥ ८॥
 
अमुनैव सर्वदुर्ग तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ९॥
 
अमुनेति । यूयममुना पुत्रेणैव सर्वदुर्गे सङ्कटजातं तरितास्थ तरिष्यथ ।
कृतास्थं कृतादरं यथा भवति तथात्रास्मिन् पुत्रे तिष्ठध्वं विश्वस्ता भवत । हरिर-
यमित्येवानभिलपन्ः त्वामुद्दिश्य इत्यादि श्रीकृष्णावतारकार्यमखिलं स गर्गमुनिरव-
र्णयत् ॥ ९ ॥
 
१. 'ति' क. ख. पाठः. २. 'तिं चास्ये' क. पाठः