This page has been fully proofread once and needs a second look.

दशकम् - ४४]
 
कृष्णस्य जातकर्मनामकरणवर्णनम् ।
 
१७३
 
अन्यानिति । अन्यांश्च वासुदेवादीन् व्याकुर्वन्नन्वर्थतया कथयन् प्राक्

कदाचिद् वसुदेवाज्जातोऽयं तव पुत्रः । तस्माद् वासुदेव इति चास्य नामास्तु ।

किञ्च मानुषानतिक्रम्य वर्तत इत्यतिमानुषानुभावं त्वां विष्णुमप्रकाशयन् जातक-

दृष्ट्या पित्रे नन्दाय न्यगददुक्तवान् ॥ ६ ॥
 

 
तदाह -
 
-
 

 
स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः ।

द्रुह्यति यः स तु नश्येदित्यवदत् ते महत्त्वमृषिवर्यः ॥ ७ ॥
 
स्त्रि

 
स्निह्
यतीति । यस्तव पुत्रे स्त्रिनिह्यति यः कृष्णभक्तो भवति, स मायिकैः

शोकैर्न मुह्यति न जननमरणादिदुःखमनुभवति । तव पुत्राय द्रुह्यति यो यः कृष्णाद्

विमुखो भवति, स तु नश्येत् संसारी स्यादिति गूढार्थरूपं ते महत्त्वमृषिवर्योऽव-

ददित्यर्थः ॥ ७ ॥
 

 
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।

श्रोष्यसि[^१] सुबिविमलकीर्ती[^२]रस्येति भवद्विभूतिमृषिरूचे ॥ ८ ॥
 

 
जेष्यतीति । अमलपदं निष्कलब्रह्म नेष्यति प्रापयिष्यति । अस्य तव पुत्रस्य

सुबिविमलाः पापहराः कीर्तीरयं लोकः श्रोप्ष्यतीति भवतो विभूतिमैश्वर्यम् ॥ ८॥
 

 
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् ।

हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ९॥
 

 
अमुनेति । यूयममुना पुत्रेणैव सर्वदुर्गेगं सङ्कटजातं तरितास्थ तरिष्यथ ।

कृतास्थं कृतादरं यथा भवति तथात्रास्मिन् पुत्रे तिष्ठध्वं विश्वस्ता भवत । हरिर-

यमित्येवानभिलपन्ः त्वामुद्दिश्य इत्यादि श्रीकृष्णावतारकार्यमखिलं स गर्गमुनिरव-

र्णयत् ॥ ९ ॥
 

 
[^
]. 'ति' क. ख. पाठः.
[^
]. 'तिं चास्ये' क. पाठः