This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
नन्द इति । नन्दितात्मा सन्तुष्टः यमिनां मुनीनां बृन्दिष्ठं श्रेष्ठं मानयन्
यथाविधि पूजयन् ॥ २ ॥
 
१७२
 
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य ! कार्यमिति कथयन् ।
गर्गो निर्गतपुलकञ्चक्रे तव साग्रजस्य नामानि ॥ ३ ॥
 
यद्विति । मम यदुवंशाचार्यत्वान्मया संस्कृते तव पुत्रे कंसस्य यदुकुमारशङ्का
स्यात् । तत्परिहाराय सुनिभृतमतिगूढमिदं कार्यम् । त्वत्स्पर्शान्निर्गतपुलकः ॥ ३ ॥
 
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
 
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ! ॥ ४ ॥
 
कथमिति । अनन्तनाम्नः कथं नाम कुर्वे । कथं कानिचिन्नामानि कृतवा-
निति पृष्टः किं ब्रूयामिति विषण्णो नाम मुनिस्तव नाम रहसि चक्रे ॥ ४ ॥
 
कृष्णनाम निर्वक्ति.
 
-
 
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदधकार्पित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ५ ॥
 
कृषीति । कृषिधातुः सत्तावाचकः, णकार आनन्दवाचकः, तयोः सामा-
नाधिकरण्येन कृष्णनाम सत्तानन्दात्मतामभिलपत् परब्रह्मवाचकं भवति । किलश-
ब्दोऽत्र पुराणप्रसिद्धिं द्योतयति । तदुक्तं –
 
"कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥"
 
इति । अथवा जगतामघं कर्षतीति कृष्ण इति निर्वचनमित्याह - जगदिति ।
कथयदिति नामविशेषणम् ॥ ५ ॥
 
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥ ६ ॥
 
१. 'प्य' क. पाठः,