2023-04-12 09:16:36 by Padmavati
This page has been fully proofread once and needs a second look.
[स्कन्धः - १०
यथाविधि पूजयन् ॥ २ ॥
१७२
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य ! कार्यमिति कथयन् ।
गर्गो निर्गतपुलक
यद्विति । मम यदुवंशाचार्यत्वान्मया संस्कृते तव पुत्रे कंसस्य यदुकुमारशङ्का
स्यात् । तत्परिहाराय सुनिभृतमतिगूढमिदं कार्यम् । त्वत्स्पर्शान्निर्गतपुलकः ॥ ३ ॥
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्य[^१]नन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ! ॥ ४ ॥
कथमिति । अनन्तनाम्नः कथं नाम कुर्वे । कथं कानिचिन्नामानि कृतवा-
निति पृष्टः किं ब्रूयामिति विषण्णो नाम मुनिस्तव नाम रहसि चक्रे ॥ ४ ॥
कृष्णनाम निर्वक्ति
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगद
कृषीति । कृषिधातुः सत्तावाचकः, णकार आनन्दवाचकः, तयोः सामा-
नाधिकरण्येन कृष्णनाम सत्तानन्दात्मतामभिलपत् परब्रह्मवाचकं भवति । किलश-
ब्दोऽत्र पुराणप्रसिद्धिं द्योतयति । तदुक्तं
"कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥"
इति । अथवा जगतामघं कर्षतीति कृष्ण इति निर्वचनमित्याह
कथयदिति नामविशेषणम् ॥ ५ ॥
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥ ६ ॥
[^१]. 'प्य' क. पाठः