This page has not been fully proofread.

कृष्णस्य जातकर्मनामकरणवणनम् ।
 
मातरपितृप्रमुखैस्तदानीं
 
सम्मार्थितस्त्वदवनाय विभो ! त्वमेव ॥ ९ ॥
 
भूय इति । भूयोऽप्येवंविधसङ्कटेषु गोविन्दो विष्णुरेव नः सुतं परिपाल-
दशकम् - ४४]
 
यतात् ॥ ९ ॥
 
इत्यादि
 
वातात्मकं दनुजमेवमयि प्रधून्वन्
बातोद्भवान् मम गढ़ान् किमु नो धुनोषि ।
किं वा करोमि पुनरप्यनिलालयेश !
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ १० ॥
 
वातेति । वातात्मकं तृणावर्ते प्रधन्वन् निगृह्णन् हे अनिलालयेश ! तव
वातालयस्थत्वे वातनिग्राहकत्वे च सत्यपि मम वातोद्भवान् गदान् किमु नो धुनोषि
मत्प्रारब्धकर्मदोषादिति चेत् किं वा करोमि । अपि वा पुनः प्रारब्धावसाने स्थूल-
सूक्ष्मदेहद्वयपातेन निःशेषाणां बाह्यानां वातादीनामान्तराणां रागादीनामपि
रोगाणां शमनं मोक्षमप्यर्थये प्रार्थयामि ॥ १० ॥
 
इति तृणावर्तवधवर्णनं त्रयश्चत्वारिंशं दशकम् ।
 
अथ श्लोकदशकेन गर्गस्य नामकरणजातकर्माख्याने दर्शयति –
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान् विभो ! गतवान् ॥ १ ॥
 
१७१
 
गूढमिति । परमार्थतो निष्क्रियस्यापि मनुष्यदृष्ट्या कर्तव्यान् संस्कारान्
नामकरणादीन् हृद्गतहोरातत्त्वः सम्यग् विदितज्योतिश्शास्त्रयाथार्थ्यः ॥ १ ॥
 
नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् ।
मन्दास्मतार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ २ ॥
 
१. 'घे सङ्कटे गो' क. ग. पाठ:. २. 'हं' क. पाठ:.