This page has been fully proofread once and needs a second look.

कृष्णस्य जातकर्मनामकरणवणनम् ।
 
इत्यादि मातरपितृप्रमुखैस्तदानीं
 

सम्माप्रार्थितस्त्वदवनाय विभो ! त्वमेव ॥ ९ ॥
 

 
भूय इति । भूयोऽप्येवंविध[^१]सङ्कटेषु गोविन्दो विष्णुरेव नः सुतं परिपाल-
दशकम् - ४४]
 

यतात् ॥ ९ ॥
 
इत्यादि
 

 
वातात्मकं दनुजमेवमयि प्रधून्वन्
बा

वा
तोद्भवान् मम गढ़ादान् किमु नो धुनोषि ।

किं वा करोमि पुनरप्यनिलालयेश !

निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ १० ॥
 

 
वातेति । वातात्मकं तृणावर्ते प्रधतं प्रधून्वन् निगृह्णन् हे अनिलालयेश ! तव

वातालयस्थत्वे वातनिग्राहकत्वे च सत्यपि मम वातोद्भवान् गदान् किमु नो धुनोषि

मत्प्रारब्धकर्मदोषादिति चेत् किं वा करोमि । अपि वा पुनः प्रारब्धावसाने स्थूल-

सूक्ष्मदेहद्वयपातेन निःशेषाणां बाह्यानां वातादीनामान्तराणां रागादीनामपि

रोगाणां शमनं मोक्षमप्यर्थये प्रार्थयामि ॥ १० ॥
 

 
इति तृणावर्तवधवर्णनं त्रयश्चत्वारिंशं दशकम् ।
 

 
अथ श्लोकदशकेन गर्गस्य नामकरणजातकर्माख्याने दर्शयति
--
 
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।

हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहा[^२]न् विभो ! गतवान् ॥ १ ॥
 
१७१
 

 
गूढमिति । परमार्थतो निष्क्रियस्यापि मनुष्यदृष्ट्या कर्तव्यान् संस्कारान्

नामकरणादीन् हृद्गतहोरातत्त्वः सम्यग् विदितज्योतिश्शास्त्रयाथार्थ्यः ॥ १ ॥
 

 
नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् ।
मन्दास्म

मन्दस्मि
तार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ २ ॥
 

 
[^
]. 'घे सङ्कटे गो' क. ग. पाठ:. ठः
[^
]. 'हं' क. पाठ:.
 
ठः