This page has not been fully proofread.

१७०
 
नारायणीये
मैक्षन्त हन्त निपतन्तममुष्य वक्ष-
स्यक्षीणमेव च भवन्तमलं इसन्तम् ॥ ६ ॥
 
रोदेति । तदनु निपतन्तमतिस्थविष्ठं स्थूलतरं तृणावर्तस्य देहम्
अमुष्य वक्षसि निपतन्तं भवन्तं च प्रेक्षन्त, यतोऽलं हसन्तम् अतोऽक्षीणमेव
च प्रैक्षन्तेत्यर्थः ॥ ६ ॥
 
ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आम्नानमम्बुजकरेण भवन्तमेत्य
 
गोपा दधुगिरिवरादिव नीलरत्नम् ॥ ७ ॥
 
ग्रावेति । ग्रावप्रपातेन पाषाणपृष्ठनिपतनेन परिपिष्टश्चूर्णीकृतो गरिष्ठो यो
देहस्तस्माद् भ्रष्टा असवो यस्य तस्य दुष्टदनुजस्योपरि अम्बुजकरेणानानं मया
हतोऽयमिति दिविष्टान् ग्राहयितुं निघ्नन्तमिव चलितकराम्बुजम् अत एव धृष्टहासं
कपटहासयुक्तं गोपा दधुरुद्धृतवन्तः ॥ ७ ॥
 
एकैकमाशु परिगृह्य निकामनन्द-
नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी-
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ८ ॥
 
[स्कन्धः-१०
 
एकैकमिति । एकैकं मृदुकरचरणादिकं परिगृह्य निकाममतिशयेन नन्द-
द्भिर्मोदमानैर्नन्दादिभिः परिवार्य युगपत् परिरब्धानि विचुम्बितानि चाङ्गानि यस्य ।
आदातुकामेति मामादातुकामेयमिति परिशङ्कितानां गोपनारीणां हस्ताम्बुजेषु
प्रपतितं हस्तप्रसारणात् पूर्वमेव निपत्य तां आकुलीकुर्वन्तम् ॥ ८ ॥
 
भूयोऽपि किन्नु कृणुमः * प्रणतार्तिहारी
गोविन्द एव परिपालयतात् सुतं नः ।
 
* कुर्म इत्यर्थः । 'कृवि हिंसाकरणयोश्च' ।