This page has been fully proofread once and needs a second look.

१७०
 
नारायणीये
मै
प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष-

स्यक्षीणमेव च भवन्तमलं सन्तम् ॥ ६ ॥
 

 
रोदेति । तदनु निपतन्तमतिस्थविष्ठं स्थूलतरं तृणावर्तस्य देहम्

अमुष्य वक्षसि निपतन्तं भवन्तं च प्रेरैक्षन्त, यतोऽलं हसन्तम् अतोऽक्षीणमेव

च प्रैक्षन्तेत्यर्थः ॥ ६ ॥
 

 
ग्रावप्रपातपरिपिष्टगरिष्ठदेह-

भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।

म्घ्नानमम्बुजकरेण भवन्तमेत्य
 

गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ७ ॥
 

 
ग्रावेति । ग्रावप्रपातेन पाषाणपृष्ठनिपतनेन परिपिष्टश्चूर्णीकृतो गरिष्ठो यो

देहस्तस्माद् भ्रष्टा असवो यस्य तस्य दुष्टदनुजस्योपरि अम्बुजकरेणाघ्नानं मया

हतोऽयमिति दिविष्टाठान् ग्राहयितुं निघ्नन्तमिव चलितकराम्बुजम् अत एव धृष्टहासं

कपटहासयुक्तं गोपा दधुरुद्धृतवन्तः ॥ ७ ॥
 

 
एकैकमाशु परिगृह्य निकामनन्द-

न्
नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् ।

आदातुकामपरिशङ्कितगोपनारी-

हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ८ ॥
 
[स्कन्धः-१०
 

 
एकैकमिति । एकैकं मृदुकरचरणादिकं परिगृह्य निकाममतिशयेन नन्द-

द्भिर्मोदमानैर्नन्दादिभिः परिवार्य युगपत् परिरब्धानि विचुम्बितानि चाङ्गानि यस्य ।

आदातुकामेति मामादातुकामेयमिति परिशङ्कितानां गोपनारीणां हस्ताम्बुजेषु

प्रपतितं हस्तप्रसारणात् पूर्वमेव निपत्य तां आकुलीकुर्वन्तम् ॥ ८ ॥
 

 
भूयोऽपि किन्नु कृणुमः [^*] प्रणतार्तिहारी

गोविन्द एव परिपालयतात् सुतं नः ।
 

 
[^
*] कुर्म इत्यर्थः । 'कृवि हिंसाकरणयोश्च' ।