This page has not been fully proofread.

दशक्रम् - ४३]
 
तृणावर्तवधवर्णनम् ।
 
१६९
 
तावदिति । विदूरं दूरादेवोपकर्णितेन घोरघोषेण व्याजृम्भिन्या प्रवृद्धया
पांसुपटल्या च परिपूरिता दशाशा येन । वात्या वातसमूहस्तद्वपुस्तृणावर्ताख्यो
जनानां मानसहारी त्वं, तं त्वामेव जहार ॥ २ ॥
 
उद्दामपांसुतिमिराहतदृष्टिपाते
 
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालकस्य किमिति त्वदुपान्तमाप्ता
 
माता भवन्तमविलोक्य भृशं रुरोद ॥ ३ ॥
 
उद्दामेति । उद्दामाभ्यां पांसुतिमिराभ्यामाहतो दृष्टिपातो यस्य । अतः
किमपि द्रष्टुमकुशलेऽसमर्थे बालकस्य किं जातमिति ॥ ३ ॥
 
तावत् स दानववरोऽपि च दीनमूर्ति-
र्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे
 
घोषे व्यतायत भवज्जननीनिनादः ॥ ४ ॥
 
तावदिति । दीनमूर्तिः क्षीणशरीरः । भावत्को भवदीयो भारो गुरुत्वं तस्य
परिधारणेन लूनवेगो नष्टगमनवेगः सङ्कोचं निश्चेष्टतामाप । तदनु अनन्तरं क्षता
नष्टाः पांसवो घोषश्च यस्मिन् तस्मिन् घोषे व्रजे व्यतायत व्याप्तोऽभूत् ॥ ४ ॥
 
रोदोपकर्णनवशादुपगम्य गेहं
 
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु-
स्त्वय्यप्रमुञ्चति पपात वियप्रदेशात् ॥ ५ ॥
 
रोदेति। यशोदाया रोदोपकर्णनवशात् तस्या गेहमुपगम्य । कण्ठे बाहुभ्यां
बद्धं त्वां मुमुक्षुः । दीनः क्षीणजीवितः ॥ १ ॥
 
रोदाकुलास्तदनु गोपगणा बहिष्ट-
पाषाणपृष्ठभुवि देहमतिस्थविष्टम् ।