This page has not been fully proofread.

ROPA
 
१६८
 
नारायणीये
 
[स्कन्धः - १०
 
कथम् अमुष्य शकटासुरस्य रजोऽपि रजोमात्रतयापि शरीरं नो दृष्टमित्याशङ्कय
आ ज्ञातमित्याह - स इति । स दैत्यः सशरीर एव त्वयि निलनिवान् ध्रुवं निश्चि-
नोमि । रजोऽपि नो दृष्टमतस्तमसः का कथा । रजस्तमोविलये च त्वयि लीन-
वान् इत्युक्तिर्युक्तिमतीत्यर्थः ॥ १० ॥
 
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन मरुत्पुराधीश ! रुजां जहीहि मे ॥ ११ ॥
 
प्रपूजितैरिति । भविष्यदपायशङ्कया विशेषतो लम्भिताः प्रापिता मङ्गल-
रूपा आशिषोऽनुग्रहा यस्य स त्वं मे रुजां रोगं जहीहि त्यज ॥ ११ ॥
 
इति शकटासुरवधवर्णनं द्विचत्वारिंशं दशकं सैकम् ।
 
त्वामेकढ़ा गुरुमरुत्पुरनाथ! वोढुं
गाढाधिरूढगरिमाणमपारयन्ती ।
माता निधाय शयने किमिदं वतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ १ ॥
 
त्वामिति । त्वां गाढाधिरूढगरिमाणमतिशयेन प्राप्तगुरुत्वं वोढुम् अङ्केनो-
द्धर्तुमपारयन्त्यशक्नुवती माता यशोदा शयने निधाय किमिदं बतेति निविष्टा
शङ्का यस्यां सा त्वां ध्यायन्ती गृहेष्वचेष्टत ॥ १ ॥
 
तावद् विदूरमुपकर्णितघोरघोष-
व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव-
र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ २ ॥
 
$ 'अच्' (५-४-७५) इति योगविभागाद् अच्प्रत्ययः समासान्तः पद्मनाभवत । आशिष
शब्द एव वा स्वार्थाणन्तः समासे घटितः प्रज्ञादेराकृतिगणत्वात् ।