This page has been fully proofread once and needs a second look.

ROPA
 
१६८
 
नारायणीये
 
[स्कन्धः - १०
 
कथम् अमुष्य शकटासुरस्य रजोऽपि रजोमात्रतयापि शरीरं नो दृष्टमित्याशङ्कय
क्य
आ ज्ञातमित्याह - --स इति । स दैत्यः सशरीर एव त्वयि निलनिवान् ध्रुवं निश्चि-

नोमि । रजोऽपि नो दृष्टमतस्तमसः का कथा । रजस्तमोविलये च त्वयि लीन-

वान् इत्युक्तिर्युक्तिमतीत्यर्थः ॥ १० ॥
 

 
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः
[^$]।
व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश ! रुजां जहीहि मे ॥ ११ ॥
 

 
प्रपूजितैरिति । भविष्यदपायशङ्कया विशेषतो लम्भिताः प्रापिता मङ्गल-

रूपा आशिषोऽनुग्रहा यस्य स त्वं मे रुजां रोगं जहीहि त्यज ॥ ११ ॥
 

 
इति शकटासुरवधवर्णनं द्विचत्वारिंशं दशकं सैकम् ।
 

 
त्वामेकढ़ादा गुरुमरुत्पुरनाथ! वोढुं

गाढाधिरूढगरिमाणमपारयन्ती ।

माता निधाय शयने किमिदं तेति

ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ १ ॥
 

 
त्वामिति । त्वां गाढाधिरूढगरिमाणमतिशयेन प्राप्तगुरुत्वं वोढुम् अङ्केनो-

द्धर्तुमपारयन्त्यशक्नुवती माता यशोदा शयने निधाय किमिदं बतेति निविष्टा

शङ्का यस्यां सा त्वां ध्यायन्ती गृहेष्वचेष्टत ॥ १ ॥
 

 
तावद् विदूरमुपकर्णितघोरघोष-

व्याजृम्भिपांसुपटलीपरिपूरिताशः ।

वात्यावपुः स किल दैत्यवरस्तृणाव-

र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ २ ॥
 

 
$ 'अच्' (५-४-७५) इति योगविभागाद् अच्प्रत्ययः समासान्तः पद्मनाभवत । आशिष
-
शब्द एव वा स्वार्थाणन्तः समासे घटितः प्रज्ञादेराकृतिगणत्वात् ।