This page has not been fully proofread.

दशकम् - ४२]
 
शकटासुरवधवर्णनम् ।
 
कुमारकस्येति । कुमारकस्य पदाम्बुजाभ्यामाहतमनो विपर्यगाद् व्यत्य-
स्तावयवमभूद्, मया दृष्टं मयापि दृष्टमिति बालका जगुः ॥ ६ ॥
 
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्कयत दृष्टपूतनैः ॥ ७ ॥
 
भियेति । इदं वचोऽतिदुर्घटमत्यन्तानुपपन्नम् । अत्र हेतुः- कुमारकाणां
बालानां विशेषतस्तदा भिया किञ्चिदप्यजानतामिति । भवतः प्रभावः शक्तिस्तद-
विदुरैस्तदनभिज्ञैः कैश्चिदितीरितमुक्तम् । दृष्टपूतनैर्नन्दोपनन्दादिभिर्मनागीषत् त्व-
त्प्रभावादिदमित्थमित्याशङ्कयतैव ॥ ७ ॥
 
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ८ ॥
 
प्रवालेति । पदं क्षतं व्रणितं किं, करौ विरोजितौ भग्नौ न्विति वदन्त्यः
प्रसर्पन्त्या करुणया तत्कार्य सन्तता श्रुधारापनयनप्रवृत्त्या तरङ्गिताश्चलिता अङ्गना
गोप्यस्त्वदङ्गं मन्दं मन्दमापस्पृशुः ॥ ८ ॥
 
अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे ।
इति स्म सङ्गृह्य पिता त्वदकं मुहुर्मुहुः श्लिष्यति जातकण्टकः ॥ ९ ॥
 
अये इति । अपायनिश्चये सत्यतथादर्शनादये इत्यतर्कितोपनते । जगत्पते-
विष्णोः कृपातरङ्गपातात् करुणालवप्राप्तेरद्य परिपातं रक्षितं मे सुतं देहीति पिता
नन्दः श्लिष्यति स्म ॥ ९ ॥
 
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नो दृष्टममुष्य तत् कथं स शुद्धसत्वे त्वयि लीनवान् ध्रुवम् ॥
 
तत्
 
अनोनिलीन इति । अनोनिलीनस्तद्रूपः । ननु विहिंसित इत्युक्तं,