This page has been fully proofread once and needs a second look.

दशकम् - ४२]
 
शकटासुरवधवर्णनम् ।
 
कुमारकस्येति । कुमारकस्य पदाम्बुजाभ्यामाहतमनो विपर्यगाद् व्यत्य-

स्तावयवमभूद्, मया दृष्टं मयापि दृष्टमिति बालका जगुः ॥ ६ ॥
 

 
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।

भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः ॥ ७ ॥
 

 
भियेति । इदं वचोऽतिदुर्घटमत्यन्तानुपपन्नम् । अत्र हेतुः- -कुमारकाणां

बालानां विशेषतस्तदा भिया किञ्चिदप्यजानतामिति । भवतः प्रभावः शक्तिस्तद-

विदुरैस्तदनभिज्ञैः कैश्चिदितीरितमुक्तम् । दृष्टपूतनैर्नन्दोपनन्दादिभिर्मनागीषत् त्व-

त्प्रभावादिदमित्थमित्याशङ्क्यतैव ॥ ७ ॥
 

 
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।

इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ८ ॥
 

 
प्रवालेति । पदं क्षतं व्रणितं किं, करौ विरोजितौ भग्नौ न्विति वदन्त्यः

प्रसर्पन्त्या करुणया तत्कार्य सन्तता श्रुधारापनयनप्रवृत्त्या तरङ्गिताश्चलिता अङ्गना

गोप्यस्त्वदङ्गं मन्दं मन्दमापस्पृशुः ॥ ८ ॥
 

 
अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे ।

इति स्म सङ्गृह्य पिता त्वदङ्गकं मुहुर्मुहुः श्लिष्यति जातकण्टकः ॥ ९ ॥
 

 
अये इति । अपायनिश्चये सत्यतथादर्शनादये इत्यतर्कितोपनते । जगत्पते-

र्
विष्णोः कृपातरङ्गपातात् करुणालवप्राप्तेरद्य परिपातं रक्षितं मे सुतं देहीति पिता

नन्दः श्लिष्यति स्म ॥ ९ ॥
 

 
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।

रजोऽपि नो दृष्टममुष्य तत् कथं स शुद्धसत्वे त्वयि लीनवान् ध्रुवम् ॥
 
तत्
 

 
अनोनिलीन इति । अनोनिलीनस्तद्रूपः । ननु विहिंसित इत्युक्तं,
 
तत्