This page has not been fully proofread.

१६६
 
नारायणीये
 
[स्कन्धः-१०
 
तत इति । भवतैः तव बालकस्य त्राणे रक्षणे यशोदया नियुक्तानां बाल-
कानां शकटपतनचटचटाशब्दोत्थया प्रभीत्या संक्रन्दनस्याक्रन्दनस्य बहुभिः कृत-
त्वात् सङ्कुलारखैः प्रवृद्धैरारवैर्विमिश्रं यथा भवति तथा परिस्फुटतां विघटितसन्धि-
बन्धानां दारूणामनोवयवानामारबोऽश्रावि यशोदादिभिः श्रूयते स्म ॥ २ ॥
 
ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा वजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतहारुणदारुमध्यगम् ॥ ३ ॥
 
तत इति । ततस्तदाकर्णनेन प्राग्वत् किमिदमिति सम्भ्रमेण स्वस्त्रगेहान्न-
न्दगेहं प्रति धावनपरिश्रमेण च प्रकम्पिनौ वक्षोजभरौ यासां ताः अन्तर्भवनान्ते
समन्ततः परितो विनिप्पततां दारुणानां गुरुतराणां दारूणामक्षकूबराद्यनोवयवानां
मध्यगं ददृशुः ॥ ३ ॥
 
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाच भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ ४ ॥
 
शिशोरिति । नन्दादयः प्रधाव्य वेगादागत्य यशोदया धृतमुद्धृतमवलोक्य
समाश्वसन् आश्वासं कृतवन्तः ॥ ४ ॥
 
कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेत ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥५॥
 
कस्क इति । कस्को नु कौतस्कुतः कः कः कीदृशः कुतैः कुतः कस्मात्
कारणादागतः । सम्भ्रमाद् द्विरुक्तिः । विशङ्कटं विस्तृतं विपाटितं केनापि भिन्नाव-
यवं कृतम् । इह न किञ्चित् कारणं, यतोऽस्मरणीयैवंविधसामर्थ्यो बालकः । स्व-
नासिकादत्तकरा इति विस्मयानुभावः ॥ ५ ॥
 
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ! ते पालकबालका जगुः ॥ ६ ॥
 
१ 'त: स्वबा' ख. ग. पाठ:. २. 'त आगतः कौतस्कुतः, कुतः क' क. पाठ:.