This page has not been fully proofread.

१६५
 
दशकम् - ४२]
 
शकटासुरवधवणनम् ।
 
अहो कुमारो मयि दत्तदृष्टि: स्मितं कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयीश! किं किं न कृतं वधूभिः ॥ ८ ॥
 
अहो इति । हे ईश ! विष्णो ! त्वयि गोपबालरूपिणि वधूभिरङ्कारोपणाश्ले-
षचुम्बनलालनादि किं किं न कृतम्, अहो भाग्यवत्यस्ता इति भावः ॥ ८ ॥
 
भवद्वपुःस्पर्शनकौतुकेन करात् करं गोपत्रचूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्विलीलम्वतुलामलासीः ॥ ९ ॥
 
भवदिति । वधूजनपाणिपरम्पराया अरुणसरोजमालायमानतया तब च
तड्यालम्बिप्रतिनवमधुलुब्धलोलम्बदेशीयतया तत्तुलामलासीः कलितवानसीत्यर्थः ॥
 
निपाययन्ती स्तनमकगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे ! गदान्माम् ॥ १० ॥
 
निपाययन्तीति । यशोदा कतमां कीदृशीं दशां विस्मयौत्सुक्यापायशङ्का-
दैवप्रार्थनवैवश्यादिरूपामवस्थां न भेजे प्राप्तवती ॥ १० ॥
 
इति पूतनाशरीरदाहवर्णनं बालकलालनेन यशोदादीनां निरतिशयानन्दवर्णनं च
एकचत्वारिंशं दशकम् ।
 
कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवमहसुरा ।
महानसस्त्वां सविधे निधाय सा महानसाढ़ौ वढते व्रजेश्वरी ॥ १ ॥
 
कदापीति । निमन्त्रिता आमन्त्रिता ज्ञातयस्तद्वध्वो महीसुराश्च यया । मह-
तोऽनसः शकटस्य । महानसादौ पाकगेहादौ ववृते प्रवृत्ताभूत् ॥ १ ॥
ततो भवत्त्राणनियुक्तवालकप्रभीतिसङ्क्रन्दनसकुलारवैः ।
विमिश्रमावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ २ ॥
* अलासीरिति 'ला आदाने' इत्यतो लुङ् ।