This page has been fully proofread once and needs a second look.

१६५
 
दशकम् - ४२]
 
शकटासुरवधवणनम् ।
 
अहो कुमारो मयि दत्तदृष्टि: स्मितं कृतं मां प्रति वत्सकेन ।

एह्येहि मामित्युपसार्य पाणिं त्वयीश! किं किं न कृतं वधूभिः ॥ ८ ॥
 

 
अहो इति । हे ईश ! विष्णो ! त्वयि गोपबालरूपिणि वधूभिरङ्कारोपणाश्ले-

षचुम्बनलालनादि किं किं न कृतम्, अहो भाग्यवत्यस्ता इति भावः ॥ ८ ॥
 

 
भवद्वपुःस्पर्शनकौतुकेन करात् करं गोपत्रचूवधूजनेन ।

नीतस्त्वमाताम्रसरोजमालाव्यालम्विलीलोलम्तुलामलासीः[^*] ॥ ९ ॥
 

 
भवदिति । वधूजनपाणिपरम्पराया अरुणसरोजमालायमानतया त
तड्

तद्व्
यालम्बिप्रतिनवमधुलुब्धलोलम्बदेशीयतया तत्तुलामलासीः कलितवानसीत्यर्थः ॥
 

 
निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।

दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे ! गदान्माम् ॥ १० ॥
 

 
निपाययन्तीति । यशोदा कतमां कीदृशीं दशां विस्मयौत्सुक्यापायशङ्का-

दैवप्रार्थनवैवश्यादिरूपामवस्थां न भेजे प्राप्तवती ॥ १० ॥
 

 
इति पूतनाशरीरदाहवर्णनं बालकलालनेन यशोदादीनां निरतिशयानन्दवर्णनं च

 
एकचत्वारिंशं दशकम् ।
 

 
कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवमहधूमहीसुरा ।

महानसस्त्वां सविधे निधाय सा महानसाढ़ौ वढदौ ववृते व्रजेश्वरी ॥ १ ॥
 

 
कदापीति । निमन्त्रिता आमन्त्रिता ज्ञातयस्तद्वध्वो महीसुराश्च यया । मह-

तोऽनसः शकटस्य । महानसादौ पाकगेहादौ ववृते प्रवृत्ताभूत् ॥ १ ॥

 
ततो भवत्त्राणनियुक्तवाबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।

विमिश्रमामश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ २ ॥

 
[^
*] अलासीरिति 'ला आदाने' इत्यतो लुङ् ।