This page has not been fully proofread.

दशकम् - १]
 
भगवन्महिमानुवर्णनम् ।
 

स्तदर्थिभिर्निधिग्रहणं कर्तव्यमित्यनेनोक्तमित्यध्याहृत्य वाक्य[^१]शेषं कल्पयन्ति, तद्व-

दत्रापि वाक्यशेषोऽध्याहर्तव्यः । एवञ्च कथञ्चिद् बहुजन्मार्जितसुकृतपरिपाकवशेन

लब्धमनुष्यजन्मानो यूयं भक्तियोगपुरःसरं भक्तानुग्रहायाङ्गीकृतसत्त्वविग्रहं श्रीगुरु-

वायुपुरनाथं परं ब्रह्म संसेव्य परमपुरुषार्थमनुभवतेत्युपदेशरहस्यमेवैतदित्यवगन्त-

व्यम् । ननु भाग्यमिति कर्मफलमुच्यते । तज्जन्य[^२]त्वे परमपुरुषार्थस्यानित्यत्वप्रस
-
ङ्ग इति चेद्, न, अधिकारित्वसम्पादनेनोपक्षीणत्वात् कर्मफलानाम् । तदुक्तम्

'एषां नित्यानां बुद्धिशुद्धिः परं प्रयोजनम्' इति । ब्रह्मणः स्वरूपलक्षणमाह -

सान्द्रानन्दावत्रोधात्मकं तत्त्वमिति । आनन्दः सुखम् अवबोधो ज्ञानं, सान्द्रौ

घनीभूतौ आनन्दावबोधावात्मा स्वरूपं यस्य तत् तथोक्तम् । आनन्दस्य सान्द्रत्वं

नाम स्रक्चन्दनायुपाध्यनवच्छिन्नत्वम् । अवबोधस्यै च घटादिविषयानवच्छिन्न-

त्वम् । यदुक्तमभियुक्तैः
 

 
"
 

 
'यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे ।
 

 
यद् बोधमात्रं तद् ब्रह्मेत्येवं वेदान्तनिश्चयाद् ॥ '
 

 
,
 

 
इति । तत्त्वं परमार्थं सत् सर्वस्याप्यात्मत्वेन प्रसिद्धत्वात् । कस्यापि हि न

नाहमस्मीति प्रतीतिरुदेति । एवञ्चाहंप्रत्यय एव प्रत्यगात्मत्वेन ब्रह्मणः

सिद्धत्वान्न तत्सत्त्वे विप्रतिपत्तिरिति भावः । आभ्यां विशेषणाभ्यां सच्चि-

दानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तं यथा प्रकृष्टप्रकाशचन्द्रमा इति । नन्वेदं-

लक्षणमपि ब्रह्म नानुभवपदवीमवतरति । अत ईदृशं तदिति सदृष्टान्तं प्रद-

इर्यतामित्याशङ्कयाह -- अनुपमितमिति । सजातीयस्य विजातीयस्य वान्यस्या-

भावाद् ब्रह्मणः केनाप्युपमानमशक्यमिति भावः । अनेन च ब्रह्मणोऽद्वितीयत्वम-

प्यर्थादुक्तम् । ननु जीवेश्वरयोजवानां तदुपाधीनां च भेदे जाग्रति कथमद्वितीय-

त्वं ब्रह्मण इति चेद्, मैवं, भेदप्रपञ्चस्य ब्रह्मण्यनाद्यविद्याकल्पितत्वेन स्रग्भुज-

ङ्गवन्मिथ्यात्वात् । तेन तावन्न सद्वितीयत्वम् । अविद्या चेन्द्रजालावेद्येव स्वाश्रयमै-

न्द्रजालिकमविमोहयन्ती ब्रह्माश्रिता काचिदशेषप्रपञ्चनिर्माणशक्तिः । शक्तिशक्ति-

मतोरभेद इति ब्रह्माद्वैतत्वसिद्धिः । ननु जीवेश्वरौ भिन्नौ विरुद्धधर्मत्वाद् दहनतु-

हिनवदिति भेदानुमानमस्तीति चेद्, न, एकत्वश्रुतिस्मृतिवाधितविषयत्वादस्यानु-

मानस्य । नन्वीश्वरस्य जीवैकत्वे संसारित्वं स्याद्, जीवानां चेश्वरत्वे संसारोभाव-

१. 'क्यार्थी क' ख. पाठ: २. 'त्वे च पु' क. पाठ:. ३. 'स्य घ' क. पाठ:.

के' ख. पाठः, ५. 'राप्र' ख. पाठः.
 

 
3