This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
स्तस्मात् तच्छरीरादिति, तत्स्तनाधिष्ठानतया भगवतस्तदङ्कारोहणाच्च शुद्धसत्त्वम-
यतामापन्नात् पूतनाशवशरीरादित्यर्थः । अत एव सत्त्वकार्यत्वाद् धूमस्यागरवा-
दिशङ्का ॥ ३ ॥
 
मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् ।
इत्युल्लृपन् बल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥ ४ ॥
 
मदिति । मम ब्रह्ममयस्याका रोपणलालनादौ योऽङ्गसङ्गस्तस्य फलं मुक्तिर्न
दूरे जन्मान्तरे, यथा मां हन्तुमिच्छन्त्या अस्याः पिशाच्याः । भवतां मद्योगक्षे-
मैकचित्तानां क्षणेन । वल्लवतल्लजेभ्यो भाग्यवत्तया प्रशस्तेभ्यो गोपलकेभ्यः
इत्युल्लपन् इति सम्यग् बोधनार्थमेव त्वं नूतनां सुगन्धिमातनुथाः ॥ ४ ॥
 
चित्रं पिशाच्या न हतः कुमारचित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ५ ॥
 
चित्रमिति । पुरैव 'इह च सन्त्यनिमित्तशतानी' त्यादिनेदं भयं शौरिणा वसु-
देवेनाकथि कथितमिति शौरिं प्रशंसन् भवन्मुखालोके रस आनन्दस्तस्मिन् न्यमाद्
निमग्नोऽभूत् ॥ ५ ॥
 
दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासायि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ॥ ६ ॥
 
दिने दिन इति । जो ब्रजजनः परितः प्रमोदसान्द्र इति स्थिरचराणाम-
प्यानन्दातिशय उक्तः ॥ ६ ॥
 
गृहेषु ते कोमलरूप समिथःकथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्भिरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ७ ॥
 
गृहेष्विति । कोमलयो रूपहासयोमिथः कथया सङ्कुलिताः सव्यापाराः ।
वृत्तेष्ववसितेषु ॥ ७ ॥
 
१. 'पलोके' क. ख. पाठ: २. 'न्स' ख. पाठ:.