This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
स्तस्मात् तच्छरीरादिति, तत्स्तनाधिष्ठानतया भगवतस्तदङ्कारोहणाच्च शुद्धसत्त्वम-

यतामापन्नात् पूतनाशवशरीरादित्यर्थः । अत एव सत्त्वकार्यत्वाद् धूमस्यागरवा-

दिशङ्का ॥ ३ ॥
 

 
मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् ।

इत्युल्लृपन् बल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥ ४ ॥
 

 
मदिति । मम ब्रह्ममयस्याङ्का रोपणलालनादौ योऽङ्गसङ्गस्तस्य फलं मुक्तिर्न

दूरे जन्मान्तरे, यथा मां हन्तुमिच्छन्त्या अस्याः पिशाच्याः । भवतां मद्योगक्षे-

मैकचित्तानां क्षणेन । वल्लवतल्लजेभ्यो भाग्यवत्तया प्रशस्तेभ्यो गोपा[^१]लकेभ्यः

इत्युल्लपन्[^२] इति सम्यग् बोधनार्थमेव त्वं नूपूतनां सुगन्धिमातनुथाः ॥ ४ ॥
 

 
चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् ।

इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ५ ॥
 

 
चित्रमिति । पुरैव 'इह च सन्त्यनिमित्तशतानी' त्यादिनेदं भयं शौरिणा वसु-

देवेनाकथि कथितमिति शौरिं प्रशंसन् भवन्मुखालोके रस आनन्दस्तस्मिन् न्यमाङ्क्षीद्

निमग्नोऽभूत् ॥ ५ ॥
 

 
दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।

भवन्निवासायि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ॥ ६ ॥
 

 
दिने दिन इति । व्रजो ब्व्रजजनः परितः प्रमोदसान्द्र इति स्थिरचराणाम-

प्यानन्दातिशय उक्तः ॥ ६ ॥
 

 
गृहेषु ते कोमलरूप हासमिथःकथासङ्कुलिताः कमन्यः ।

वृत्तेषु कृत्येषु भवन्भिनिरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ७ ॥
 

 
गृहेष्विति । कोमलयो रूपहासयोर्मिथः कथया सङ्कुलिताः सव्यापाराः ।

वृत्तेष्ववसितेषु ॥ ७ ॥
 

 
[^
]. 'पलोके' क. ख. पाठ: ठः
[^
]. 'न् स' ख. पाठ:.
 
ठः