This page has not been fully proofread.

द्रशकम् – ४१]
 
पूतनाशरीरदाहवर्णनम् ।
 
भुवनमङ्गल ! नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
त्वमयि वातनिकेतननाथ! मामगदयन् कुरु तावकसेवकम् ॥ १० ॥
 
भुवनेति । अगदयन् नीरोगं कुर्वन् ॥ १० ॥
 
इति वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनं पूतनामोक्षवर्णनं च
चत्वारिंशं दशकम् ।
 
१६३
 
व्रजेश्वरः शौरिवचो निशम्य समावजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कश्चित पदार्थ शरणं गतस्त्वाम् ॥ १ ॥
 
व्रजेति । शौरिवच 'इह च सन्त्यनिमित्तशतानि' (दश. ४०. श्लो. ३)
इति । समाव्रजन् स्वगृहमागच्छन् निप्पिष्टाः पतनजवेन पतिताश्चूर्णांकृताश्च
निश्शेषतरवो गव्यूत्यन्तरस्थदुमा येन तं पूतनादेहं कञ्चित् पदार्थमतिमहत्त्वाद-
दृष्टपूर्वतया च किमिदामति ज्ञातुमशक्यम् एतादृशसङ्कटे भ्रमन् बालकः क्वेति
परवशस्त्वद्रक्षणाय त्वामेव शरणं गतः रक्षितृत्वेनाश्रितवान् ॥ १ ॥
 
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुबिंदूरेऽथ कुठारकृत्तम् ॥ २ ॥
 
निशम्येति । उदन्तं पूतनावृत्तान्तम् । घोररूपदर्शनाद् भयं, त्वया
पातितमिति बिस्मयः । अथ विदूरे कुठारैः खण्डशः कृत्वा बहुभिर्दूरं नीत्वा
देहुर्भस्मीचक्रुः ॥ २ ॥
 
त्वत्पीतपूतस्तनंतच्छरीरात् समुच्चलनुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेष किं चान्दनो गौग्गुलवोऽथवेति ॥ ३ ॥
 
त्वदिति । त्वत्पीतत्वात् पूतं रजस्तमोविलये शुद्धसत्त्वमयः स्तनो यस्मि-
१. 'टेऽत्र मद्वाल' क. ख. पाठः,