2023-04-11 05:36:56 by Padmavati
This page has been fully proofread once and needs a second look.
[स्कन्धः -
१६२
व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ ५ ॥
सपदीति । हृतबालकचेतना बालघातिनीत्यर्थः ॥ ५ ॥
ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ ६ ॥
ललितेति । युवतिभिर्गोपीभिः प्रतिरो
भवनान्ते निषेदुषी उपविष्टा प्रददुषी दत्तवती । कपट आत्मा मनो मूर्तिर्वा
यस्य ॥ ६ ॥
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ ७ ॥
समधिरुह्येति । बालकानां लोपनेन मारणेन रोषितः प्रतिचुचूषिथ आमू-
लाद् वक्त्रे निवेश्यौष्ठाभ्यामवपीड्य बहुशो निष्ठीवनं कृतवान् ॥ ७ ॥
असुभिरेव समं धयति त्
निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ ८ ॥
असुभिरिति । असुभिः प्राणैः समं सह धयति पिबति सत्यसौ पूतना
स्तनितोपमो मेघध्वनिसदृशो निस्वन आक्रन्दितं यस्याः सा तथा ॥ ८ ॥
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ ९ ॥
भयदेति । भयदघोषणस्य भीषणविग्रहस्य च श्रवणेन दर्शनेन
मोहिता वल्लवा गोपा यत्र ॥ ९ ॥