This page has not been fully proofread.

दशकम् - ४०] वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनम् ।
तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
जगत्रितयमङ्गल ! त्वमिह पाहि मामामयात् ॥ १० ॥
 
भवदिति । भवतः कुशलकाम्ययाभ्युदयेच्छया ॥ १० ॥
 
इति योगमायानयनादिवर्णनम् एकोनचत्वारिंशं दशकम् ।
 
तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥ १ ॥
 
तदन्विति । अमन्दशुभास्पदं लोकोत्तरगुणाकरं नन्दं करदानकृते यदुरा-
जाय वार्षिकषष्ठांशदानार्थं गतं मथुरापुरीस्थो भवत्पिता वसुदेवो विदितः कंसस-
हायजनानां पूतनातॄणावर्तादीनामुद्यमः सकलबालहननोत्साहो येन ॥ १ ॥
 
अयि सखे ! तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादात् ॥ २ ॥
 
१६१
 
अयीति । वसुदेवो नन्दं प्रति त्वद्नेहस्थो बालो मत्पुत्र इति नोवाच,
किन्तु ब्रजनायके नन्दे भवत्पितृतामारोप्य तमादराच्छशंस । स्वपुत्रवत् साव-
धानं रक्षितुमेतदिति ज्ञातव्यम् ॥ २ ॥
 
इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ ३ ॥
 
इहेति । अनिमित्तशतानि दुर्निमित्तानि । कटकसीम्नि बजे ॥ ३ ॥
 
नन्दस्य ब्रजागमनात् पूर्वं ललितवेषायाः पूतनाया व्रजप्रवेशमाह -
-
अवसरे खलु तंत्र च काचन व्रजपदे मधुराकृतिरङ्गना ।
तरलषपदलालितकुन्तला कपटपोतक! ते निकटं गता ॥ ४ ॥