This page has not been fully proofread.

१६०
 
नारायणीये
 
[स्कन्धः - १०
 
गणैः पणायिता स्तुता जग्मुषी गतवती भुवि मन्दिराण्येयुषी नृणामनुग्रहाय
तत्तत्स्थानाभिमानितया स्थितवती ॥ ६ ॥
 
प्रगे पुनरगात्मजावचनमीरिता भूभुजा
प्रलम्बवकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति वभ्रमुर्निर्भयाः
कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ७ ॥
 
प्रग इति । पुनः परेछुः प्रगेऽहर्मुखे भूभुजा कंसेन प्रलम्बाद्या अगात्म-
जाया देव्या वचनमीरिता उक्ताः ॥ ७ ॥
 
ततः पशुपमन्दिरे त्वयि मुकुन्द ! नन्दप्रिया-
प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
 
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ८ ॥
 
तत इति । ततः पशुपमन्दिरे नन्दगे प्रसूतिशयने शेत इति प्रसूतिशयने-
शयस्तस्मिन् किञ्चिदञ्चत्पदे चलिताल्पकमृदुलाङ्घ्रपल्लवे त्वयि रुवति रुदति
सति ॥ ८ ॥
 
अहो खलु यशोदया नवकलायचेतोहरं
 
भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ९ ॥
 
अहो इति । यशोदया भवदर्शनस्पर्शनस्तनदानादिना पुण्यवन्तो मुन-
योऽपि जिता अधःकृताः खलु अहो ॥ ९ ॥
 
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।