This page has been fully proofread once and needs a second look.

१६०
 
नारायणीये
 
[स्कन्धः - १०
 
द्गणैः पणायिता स्तुता जग्मुषी गतवती भुवि मन्दिराण्येयुषी नृणामनुग्रहाय

तत्तत्स्थानाभिमानितया स्थितवती ॥ ६ ॥
 

 
प्रगे पुनरगात्मजावचनमीरिता भूभुजा

प्रलम्बकपूतनाप्रमुखदानवा मानिनः ।

भवन्निधनकाम्यया जगति वभ्रमुर्निर्भयाः

कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ७ ॥
 

 
प्रग इति । पुनः परेछुःद्युः प्रगेऽहर्मुखे भूभुजा कंसेन प्रलम्बाद्या अगात्म-

जाया देव्या वचनमीरिता उक्ताः ॥ ७ ॥
 

 
ततः पशुपमन्दिरे त्वयि मुकुन्द ! नन्दप्रिया-

प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे ।

विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
 

मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ८ ॥
 

 
तत इति । ततः पशुपमन्दिरे नन्दगेहे प्रसूतिशयने शेत इति प्रसूतिशयने-

शयस्तस्मिन् किञ्चिदञ्चत्पदे चलिताल्पकमृदुलाङ्घ्रिपल्लवे त्वयि रुवति रुदति

सति ॥ ८ ॥
 

 
अहो खलु यशोदया नवकलायचेतोहरं
 

भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।

पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा

मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ९ ॥
 

 
अहो इति । यशोदया भवद्दर्शनस्पर्शनस्तनदानादिना पुण्यवन्तो मुन-

योऽपि जिता अधःकृताः खलु अहो ॥ ९ ॥
 

 
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा

प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।