This page has not been fully proofread.

योगमायानयनादिवर्णनम् ।
 
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-
डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ ३ ॥
 
दशकम् - ३९]
 
१५९
 
तत इति । त्वदनुजाया यशोदाकन्याया रुदितरवेण क्षपितनिद्र * वेगैः प्रबु-
द्धैर्द्रवद्भिर्धावद्भिर्भटोत्करै रक्षिपुरुषैर्निवेदितया, देवक्या अष्टमः पुत्रो जात इति
प्रसववार्तयैवार्तिमान् मरणभययुक्तः कथमियं कन्यका भवेदिति बहुविधचिन्ताकु-
लतयातुष्ट इव ॥ ३ ॥
 
ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप-
नयं त्वदनुजामजामुपलपके पिष्टवान् ॥ ४ ॥
 
ध्रुवमिति । मधुहरस्य मधुसूदनस्य । अजां मायाम् ॥ ४ ॥
 
ततो भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टवाहुस्फुर-
न्महायुधमहो गता किल विहायसा दिद्युते ॥ ५ ॥
 
तत इति । ततः प्रमुच्य कंसकराद् विगलिता विकसन्त्यष्टबाहुस्फुरन्महायु-
धानि यस्मिन्निति क्रियाविशेषणम् । विहायसा मार्गेण गता दिद्युते शुशुभे ॥५॥
 
नृशंसतर! कंस ! ते किमु मया विनिष्पिष्टया
बभूव भवदन्तकः वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो ! खलमुदीर्य तं जग्मुषी
 
मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ६ ॥
 
नृशंसेति । नृशंसतर! अतिदुष्कर्मकारिन् ! । तं खलं कंसमुदीर्योक्त्वा मरु-
* क्षपितनिद्रैर्वेगेन द्रवद्भिश्चेति तु युक्तम् ।