This page has not been fully proofread.

seks
 
१५८
 
नारायणीये
 
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
 
सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥ १० ॥
 
[स्कन्धः - १०
 
शेषेणेति । भूरिभिः फणैर्वारितं वारि वर्षबिन्दवो येन तेन शेषेणानन्तेन
फणामणिदीपितेनात एव स्वैरं प्रदर्शितः पन्था मार्गो यस्य ॥ १० ॥
 
इति कृष्णावतारवर्णनं
 
स्य गोकुलनयनवर्णनं च
 
अष्टात्रिंशं दशकम् ।
 
भवन्तमयमुद्वहन् यदुकुलो हो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितो
जलौघ इव तत्क्षणात् प्रपमेयतामाययौ ॥ १ ॥
 
भवन्तमिति । निस्सरन् गच्छन् । गगनोच्चलज्जलभरां वीची जालैर्गगनतल-
विलङ्घिजलैौघपूर्णाम् ॥ १ ॥
 
प्रसुप्तपशुपालिकां निभृतमारुद्द्वालिका-
मपातकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्
 
वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ २ ॥
 
प्रसुप्तेति । प्रसुप्ताः पशुपालिका यस्यां निभृतं यशोदासूतिगेहज्ञापनार्थ
 
"
 
"
 
मन्दं मन्दमारुदती बालिका यस्याम् अपावृता विघटिताः कवाटिका यस्यां, तां
पशुपवाटिकां नन्दगोपगृहमाविशन्नयं वसुदेवो यशोदायाः प्रसवतल्पके भवन्तम-
र्पयन् तत्पदात् तस्मात् स्थानात् ॥ २ ॥
 
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव-
द्भटोत्करनिवेदित प्रसववार्तयैवार्तिमान् ।