This page has been fully proofread once and needs a second look.

seks
 
१५८
 
नारायणीये
 
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
 

सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥ १० ॥
 
[स्कन्धः - १०
 

 
शेषेणेति । भूरिभिः फणैर्वारितं वारि वर्षबिन्दवो येन तेन शेषेणानन्तेन

फणामणिदीपितेनात एव स्वैरं प्रदर्शितः पन्था मार्गो यस्य ॥ १० ॥
 

 
इति कृष्णावतारवर्णनं
 
कृष्णस्य गोकुलनयनवर्णनं च
 

 
अष्टात्रिंशं दशकम् ।
 

 
भवन्तमयमुद्वहन् यदुकुलो द्वहो निस्सरन्

ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।

अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितो

जलौघ इव तत्क्षणात् प्रपमेयतामाययौ ॥ १ ॥
 

 
भवन्तमिति । निस्सरन् गच्छन् । गगनोच्चलज्जलभरां वीची जालैर्गगनतल-

विलङ्घिजलैौलौघपूर्णाम् ॥ १ ॥
 

 
प्रसुप्तपशुपालिकां निभृतमारुद्द्वालिका-

मपावृतकवाटिकां पशुपवाटिकामाविशन् ।

भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्
 

वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ २ ॥
 

 
प्रसुप्तेति । प्रसुप्ताः पशुपालिका यस्यां, निभृतं यशोदासूतिगेहज्ञापनार्
 
"
 
"
 
थं
मन्दं मन्दमारुदती बालिका यस्याम्, अपावृता विघटिताः कवाटिका यस्यां, तां

पशुपवाटिकां नन्दगोपगृहमाविशन्नयं वसुदेवो यशोदायाः प्रसवतल्पके भवन्तम-

र्पयन् तत्पदात् तस्मात् स्थानात् ॥ २ ॥
 

 
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव-

द्भटोत्करनिवेदित प्रसववार्तयैवार्तिमान् ।