This page has not been fully proofread.

दशकम् - ३८]
 
कृष्णस्य गोकुलनयनवर्णनम् ।
 
मात्रा च नेत्रसलिलास्तृतगात्रवल्लया
स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
 
मातुर्गिरा दधिथ मानुषवालवेषम् ॥ ७ ॥
 
मात्रेति । प्राचीनजन्मयुगलं प्राग् युवयोः पृश्निसुतपसोः पुत्रतया पृश्नि-
गर्भाख्ययाहं जातः, पुनश्चादितिकाश्यपयोर्वामनाख्ययेति प्रतिबोध्य ॥ ७ ॥
 
त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधित चित्तविधार्यमार्यै-
रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ ८ ॥
 
त्वादिति । कंसभ्रान्त्यर्थे मां यशोदाशयने न्यस्य तत्सुतां मन्मातुः शयने
कुर्विति त्वया प्रेरितः सः आर्यैर्मुनिभिश्चित्तेन विधार्य ध्येयम् ॥ ८ ॥
 
जाता तदा पशुपसद्मनि योगनिद्रा
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात् किमिह चित्रमचेतनैर्यद्
 
द्वारैः स्वयं व्यघट सङ्घटितैः सुगाढम् ॥ ९ ॥
 
१५७
 
जातेति । तदा त्वत्प्रस्थानारम्भे सति योगनिद्रा माया भगवती पशुपस्य
नन्दगोपस्य सद्मनि यशोदायां जातावतीर्णा सा त्वत्प्रेरणात् पौरलोकं मथुरापुर
वासिनं जनं निद्राविमुद्रितं निश्चेष्टमकृत । किमिव चित्रमिति । अघटमानघटना-
पटीयस्यास्त्वत्प्रेरणाद् द्वारविघटनकरणादि न चित्रमित्यर्थः ॥ ९ ॥
 
शेषेण भूरिफणवारितवारिणाथ
स्वैरं प्रदर्शितपथो माणदीपितेन ।
 
१. 'सर्वलो' क. पाठ: