This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
T
 
रत्वद्योतकानि दधुषा धृतवता । तदेवाह – उद्यदिति । उद्यन्त्यः किरीटादीनां
भासो यस्मिन्निति वपुर्विशेषणम् । परिलेसिथ शुशुभिषे ॥ ३ ॥
 
वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-
मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-
मुन्मार्जयन्निव विरेजिथ वासुदेव ! ॥ ४ ॥
 
वक्षःस्थलीति । वक्षःस्थलीसुखनिलीनाया निजकमितुर्मूर्त्यन्त र परिग्रहेण
विलासिन्या नवीकृतप्रेमप्रकर्षद्योतकचेष्टाविशेषयुक्ताया लक्ष्म्या मन्दाक्षेण लक्षितैरु-
पलक्षितैर्लज्जामन्थैररित्यर्थः ॥ ४ ॥
 
शौरिस्तु धीरमुनिमण्डल चेतसोऽपि
 
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दवाप्पपुलकोद्गमगद्गदाई-
स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ५ ॥
 
शौरिरिति । धीरस्य साधनचतुष्टय सम्पन्नस्य मुनिमण्डलस्य चेतसः समाधेः
सकाशादपि दूरे स्थितम् आनन्दबाप्पेण पुलकोद्गमेन गद्गदेनै चार्गो मिलितः सन्॥
 
देव! प्रसीद परपूरुष ! तापवल्ली-
निर्लनिदात्र ! समनेत्र ! कलाविलासिन् ! ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै-
रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ६ ॥
 
देवेति । परपूरुष ! परमात्मन् ! तापवल्ल्या निर्लनौ मूलच्छेदे दात्र ! अ-
तितक्ष्णशस्त्रभूत ! समनेत्र ! सर्वनियन्तः ! कलया स्वांशभूतया मायया जगत्सृष्ट्या-
दिक्रीडाशील !, अथवा तापवल्ल्या निर्लनौ दात्रसमो नेत्रकलायाः कटाक्षस्य विला-
सोऽस्यास्तीति तथेति ॥ ६ ॥
 
१. 'ति । निज' क. ख. पाठ:. २. 'दवाक्येन' ग. पाठः ३. 'न वाक्येन चा ' ख. पाठः.