This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
T
 
रत्वद्योतकानि दधुषा धृतवता । तदेवाह--उद्यदिति । उद्यन्त्यः किरीटादीनां

भासो यस्मिन्निति वपुर्विशेषणम् । परिलेसिथ शुशुभिषे ॥ ३ ॥
 

 
वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-

मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।

तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-

मुन्मार्जयन्निव विरेजिथ वासुदेव ! ॥ ४ ॥
 

 
वक्षःस्थलीति[^१] । वक्षःस्थलीसुखनिलीनाया निजकमितुर्मूर्त्यन्तपरिग्रहेण

विलासिन्या नवीकृतप्रेमप्रकर्षद्योतकचेष्टाविशेषयुक्ताया लक्ष्म्या मन्दाक्षेण लक्षितैरु-

पलक्षितैर्लज्जामन्थैररित्यर्थः ॥ ४ ॥
 

 
शौरिस्तु धीरमुनिमण्डल चेतसोऽपि
 

दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।

आनन्दवाप्ष्पपुलकोद्गमगद्गदाई-
र्द्र-
स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ५ ॥
 

 
शौरिरिति । धीरस्य साधनचतुष्टय सम्पन्नस्य मुनिमण्डलस्य चेतसः समाधेः

सकाशादपि दूरे स्थितम् आनन्दबाप्ष्पेण पुलकोद्गमेन गद्गदेनै[^२]न[^३] चार्गोद्रो मिलितः सन्॥
 

 
देव! प्रसीद परपूरुष ! तापवल्ली-
निर्ल

निर्लू
निदात्र ! समनेत्र ! कलाविलासिन् ! ।

खेदानपाकुरु कृपागुरुभिः कटाक्षै-

रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ६ ॥
 

 
देवेति । परपूरुष ! परमात्मन् ! तापवल्ल्या निर्लूनौ मूलच्छेदे दात्र ! अ-

तितीक्ष्णशस्त्रभूत ! समनेत्र ! सर्वनियन्तः ! कलया स्वांशभूतया मायया जगत्सृष्ट्या-

दिक्रीडाशील !, अथवा तापवल्ल्या निर्लूनौ दात्रसमो नेत्रकलायाः कटाक्षस्य विला-

सोऽस्यास्तीति तथेति ॥ ६ ॥
 

 
[^
]. 'ति । निज' क. ख. पाठ:. ठः
[^
]. 'दवाक्येन' ग. पाठः
[^
]. 'न वाक्येन चा ' ख. पाठः.