This page has been fully proofread once and needs a second look.

कृष्णावतारवर्णनम् ।
 
देवक्या जठरं विवेशिथ विभो ! संस्तूयमानः सुरैः
 

स त्वं कृष्ण! विधूय रोगपटलीं भक्ति परां देहि मे ॥ १० ॥
 

 
प्राप्त इति । देवक्याः सप्तमगर्भतां प्राप्तेऽहिपतावनन्ते मायया रोहिणीं
नीते । सच्चिदिति सच्चिदानन्दैकरसः । हे कृष्ण ! सः देवकीजठरस्थः ॥ १० ॥
 
इति कृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशं
दशकम् - ३८]
 
प्राप्त इति । देवक्याः सप्तमगर्भतां प्राप्तेऽहिपतावनन्ते मायया रोहिणीं
नीते । सच्चिदिति सच्चिदानन्दैकरसः । हे कृष्ण ! सः देवकीजठरस्थः ॥ १० ॥
इति कृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशं दशकम् ।
 

 
आनन्दरूप! भगवन्नयि! तेऽवतारे

प्राप्ते प्रदीप्तभवदङ्ग [^*]निरीयमाणैः ।

कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-

मातृवृण्वती विरुरुचे किल वर्षवेला ॥ १ ॥
 
१५५
 

 
आनन्देति । प्रदीप्तात् प्रकाशोज्ज्वलाद् भवदज्ञाङ्गान्निरीयमाणैर्बहिर्निर्ग-

च्छद्भिः ॥ १ ॥
 

 
आशासु शीतलतरासु पयोदतोयै-

राशासिताप्तिविवशेषु च सज्जनेषु ।

नैशाकरोदयविधौ निशि मध्यमायां
 

क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥ २ ॥
 

 
आशास्विति । आशासितस्याभीष्टार्थस्याप्त्या लाभेन विवशेषु प्रीतिवेगे-

नाविदितेतिकर्तव्यताकेषु । मध्यमायां निशि अर्धरात्रे ॥ २ ॥
 

 
वाल्यस्पृशापि वपुषा दधुषा विभूती-

रुद्यत्किरीटकटकाङ्गदहारभासा ।

शङ्काखारिवारिजगदापरिभासितेन
 

मेघासितेन परिलेसिथ सूतिगेहे ॥ ३ ॥
 

 
बाल्येति । बाल्यं स्पृशति तेन सम्बध्यत इति बाल्यस्पृक् । विभूतीरीश्व-

 
[^
*] 'ईङ् गतौ' दिवादिः ।