This page has not been fully proofread.


अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं

तत्ताबद् भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥
 
 
सान्द्रेति । ब्रह्म गुरुपवनपुरे साक्षाद् भातीति सम्बन्धः । ब्रह्म सर्वाश्रयं सर्वा-
नुस्यूतं शुद्धचैतन्यम् । गुरुपवनपुरे गुरुपवनपुरमिति प्रसिद्धे क्षेत्रे । साक्षाद् भाति
भक्ता[^१]नुग्रहायातिस्वच्छतरशुद्धसत्त्वमयमूर्ति सद् आच्छादितनिजसच्चिदानन्दरूपं
प्रतिमामिषेण सकलजनचाक्षुषज्ञानगोचरीभवतीत्यर्थः । ननु किं सकलं निष्कलं वा
ब्रह्म साक्षाद् भातीत्युच्यत इत्याशङ्कायामाह--तत्तावदिति । तावच्छब्दोऽवधा-
रणे । यद् उक्तविशेषणविशिष्टं निष्कलं ब्रह्म, तदेवेत्यर्थः । शुद्ध[^२]सत्त्वस्य च नि-
ष्कलब्रह्मानन्यत्वं 'निष्कम्प' (श्लो. ४) इत्यत्रोपपादयिष्यते । अथवा तावच्छब्दः
क्रमार्थः । तद् ब्रह्म तावत् क्रमानुरोधेन साक्षाच्चाक्षुषतया मानसतया स्वप्रका-
शसंविद्रूपेण च भातीत्यर्थः । अयं चाशयः--श्रीगुरुपवनपुराधीशं चक्षुषा साक्षा-
तकृत्य श्रवणकीर्तनादिलक्षणया भक्त्या भजतां झटिति सञ्जातया प्रेमलक्षणया
भक्त्या निखिलकल्मषनाशे सति निर्मलचेतस्तया विलम्बितमेव साधनचतुष्टयसम्प-
त्तेरधिकारित्वे जाते सकललोकगुरोः श्रीहरेरेव प्रभावेणाहमखण्डं ब्रह्मास्मीति चित्त-
वृत्तिरुदेति । सा च ब्रह्मविषया सती ब्रह्मगताज्ञानबाधनद्वारा तत्कार्यभूतं शरीरा-
दिप्रपञ्चं, तदन्तर्भूतामखण्डाकारां चित्तवृत्तिमपि बाधते । तदा दर्पणाद्यभावे बिम्ब-
प्रतिबिम्बैक्यवत् प्रत्यगभिन्नं सच्चिदानन्दं ब्रह्म स्वप्रकाशसंविद्रूपेणावतिष्ठत इति ।
एवमनायासेनैव[^३] परमपुरुषार्थलब्धिः सुकृतपरिपाकैकमूलेत्याह--हन्त भाग्यं जना-
नामिति । जनानां भाग्यं पुरुषार्थलब्धिसामग्र्यनुमयत इत्यर्थः । जनानामित्य-
विशेषोक्त्या सर्वेषामपि भगवद्भजनाधिकार इति द्योत्यते । हन्तेति हर्षे । जनानां
भाग्ये सति हर्षाविर्भावोऽस्य शुकनारदादिभगवदधिकारिपुरुषाणामिव परमकारुणि-
कतया परार्थघटनकुतुकित्वं द्योतयति । ननु किमर्थमिदमुच्यते 'ब्रह्म भाति, हन्त
भाग्यं जनानामिति । न तावत् स्वप्रतिपत्त्यर्थं, वाक्यप्रयोगवैयर्थ्यात् । न परं बोध-
यितुं, भजध्वमित्यादितदुपपादकवाक्यशेषाश्रवणादिति चेद्, मैवम् । यथा
केनचिल्लाक्षाणिकेन 'निधिगर्भेयं भूमिः, हन्त भाग्यवन्तो यूयम्' इत्युक्ते श्रोतार-
 
[^१] 'क्तजनानु' क. पाठः.
[^२] 'तत्त्वस्य नि' क. पाठ:.
[^३] 'व पु' क. पाठः.