This page has not been fully proofread.

१५४
 
नारायणीये
 
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय
 
नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वगिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
 
सत्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ७ ॥
 
[स्कन्धः - १०
 
उद्वाहेति । एतौ देवकीवसुदेवौ सूततया सम्मानयन् । त्वद्गिरेति 'दैवम-
प्यनृतं वक्ति' (श्रीभा. स्क. १०. अ. ४. श्लो. १७) इति पुनः कंसवचनात् । हन्ता
हनिष्यति । हन्त अहो कृतार्था देवा भूश्चेतीरितः । तन्वीं देवकीम् । अधाद् आददे ॥
 
गृहानचिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै
 
नो॑ मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्सहजं तथापितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव ! पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ८ ॥
 
गृह्णान इति । चिरं दीर्घकालं प्रयुक्तैः सान्त्ववचनैः । आत्मजार्पणगिरा
अस्याः पुत्रांस्तुभ्यं दास्यामीति प्रतिज्ञया ॥ ८ ॥
 
तावत् त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
 
यूयं नन्वसुराः सुराव यदवो जानासि किं न प्रभो! ।
मायावी स हरिर्भवते भावी सुरप्रार्थना-
दित्याकर्ण्य यदुनधुनदसौ शौरेच सूनूनहन् ॥ ९ ॥
 
तावदिति । यावत् कंसो गृहं गतवान्, तावत् त्वन्मनसा त्वया प्रेरित
एव, अन्यथा श्रीनारदस्य कंसं प्रति द्वैधीभावप्रकाशनायोगात् । यूयमसुराः काल-
नेम्यादयः । भवद्वधकृते नृपीभूतानां भवतां वधार्थी हरिरस्या अष्टमपुत्रो भावी ।
अदूधुनत् स्थानाच्च्यावयामास ॥ ९ ॥
 
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
 
नीते माधव ! रोहिणीं त्वमपि भोः ! सच्चित्सुखैकात्मकः ।