This page has been fully proofread once and needs a second look.

१५४
 
नारायणीये
 
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय
 
-
न्
नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।

अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
 

सन्
त्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ७ ॥
 
[स्कन्धः - १०
 

 
उद्वाहेति । एतौ देवकीवसुदेवौ सूततया सम्मानयन् । त्वद्गिरेति 'दैवम-

प्यनृतं वक्ति' (श्रीभा. स्क. १०. अ. ४. श्लो. १७) इति पुनः कंसवचनात् । हन्ता

हनिष्यति । हन्त अहो कृतार्था देवा भूश्चेतीरितः । तन्वीं देवकीम् । अधाद् आददे ॥
 

 
गृहानह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै
 
नो॑
-
र्नो
मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।

आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ

दुष्टानामपि देव ! पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ८ ॥
 

 
गृह्णान इति । चिरं दीर्घकालं प्रयुक्तैः सान्त्ववचनैः । आत्मजार्पणगिरा

अस्याः पुत्रांस्तुभ्यं दास्यामीति प्रतिज्ञया ॥ ८ ॥
 

 
तावत् त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
 

यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो! ।

मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना-

दित्याकर्ण्य यदुनदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ ९ ॥
 

 
तावदिति । यावत् कंसो गृहं गतवान्, तावत् त्वन्मनसा त्वया प्रेरित

एव, अन्यथा श्रीनारदस्य कंसं प्रति द्वैधीभावप्रकाशनायोगात् । यूयमसुराः काल-

नेम्यादयः । भवद्वधकृते नृपीभूतानां भवतां वधार्थीथं हरिरस्या अष्टमपुत्रो भावी ।

अदूधुनत् स्थानाच्च्यावयामास ॥ ९ ॥
 

 
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
 

नीते माधव ! रोहिणीं त्वमपि भोः ! सच्चित्सुखैकात्मकः ।