2023-04-10 06:03:22 by Padmavati
This page has been fully proofread once and needs a second look.
नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥ ३ ॥
ऊच इति । धरित्र्या वचः सत्यं, मया दिव्येन चक्षुषा दृष्टम् । लक्ष्मीपति-
रिति । भुवो रक्षणाभावेऽसौ केवलं लक्ष्मीपतिरेव स्यादिति भावः । तवाकेतनं
क्षीराब्धिम् ॥ ३ ॥
दशकम् - ३७]
१५३
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
यावत् त्वत्पदचिन्तनैकमनसस्तावत् स पाथोजभूः ।
त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नूचिवा-
नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ४॥
त इति । ते यावत् तीरं गताः, तावत् पाथोजभूस्तव शेषशायिनो वाचं
हृदये हृदयाकाशे प्रकाशितां निशम्यावगम्य परमात्मना विष्णुना स्वयं स्वेनैवाह-
माख्यातः, तत् तस्य वाक्यमाकर्ण्यतामित्यूचिवान् ॥ ४ ॥
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै-
स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ५॥
जान इति। भीमैर्नृपैर्जरासन्धादिभिर्हेतुभूतैः । दीनदशां पराधीनवृत्तिताम्।
तेषां क्षेपाय निग्रहाय सः सच्चिदानन्दस्वरूपोऽहं समग्रात्मना, नांशेन । देवाः कल-
या अंशेन वृष्णिकुले गोपाला: देवाङ्गना गोप्यश्च भवन्तु ॥ ५ ॥
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित-
स्वान्तेष्वीश ! गतेषु तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
धन्यां देवकनन्दनामुदवहद् राजा स शूरात्मजः ॥ ६ ॥
श्रुत्वेति । निर्वापितानि सुखितानि स्वान्तानि येषाम् । भवत्सान्निध्येन यत्
पुण्यमभ्युद
वसुदेवः ॥ ६ ॥