This page has been fully proofread once and needs a second look.

अथ दशमस्कन्धपरिच्छेदः ।

 
कृष्णलीला निरोधाख्या भूभारहरणात्मिका ।

स्तूयते नातिसंक्षिप्ता श्लोकैः श्रोत्रमनोहरैः ॥
 

 
सान्द्रानन्दतनो ! हरे ! ननु पुरा दैवासुरे सङ्गरे

त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।

तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता
 

भूमिः पाप्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ १॥

 
सान्द्रानन्देति । आदौ मङ्गलार्थमुपात्तमन्तेऽपि 'परमानन्दसन्दोहलक्ष्मीम्'

इति प्रयोक्ष्यन् मध्येऽपि मङ्गलार्थं परब्रह्मवाचकमानन्दपदं प्रयुङ्क्ते--सान्द्रानन्देति।

हे परमानन्दस्वरूप! दैवासुरे देवासुरसम्बन्धिनि । त्वत्कृत्ता अपीति । त्वया निगृ-

हीतानां सद्य एव मुक्तिः द्वित्रैर्जन्मभिर्वा स्यादेव। तत्र ये ते प्रसिद्धाः कालनेम्यादयो

दैत्याः, ते कर्मशेषवशतो मनुष्यत्वापादकपुण्यपापशेषपरतन्त्रतया भगवता निगृहीता

अपि गतिं मोक्षं न याताः न प्राप्ताः । अत एव कंसादिरूपेण भूतले जन्म येषां

तेषां भारेण भरेण दूरार्दिता अतिशयेन पीडिता पुरा भुवः प्राप्तेः पूर्वमेवागतैः

प्राप्तैर्देवैः सह भूमिर्विरिश्ञ्चं प्राप । आश्रितपदं सत्यलोकस्थम्, अथवोपासितभगव-

त्पादपद्मं, यद्वा देवैराश्रितं पादपद्मं यस्य स तथेति ॥ १ ॥
 

 
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका-

मेतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।

इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
 

देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ! ॥ २ ॥

 
हा हेति । हा हा कष्टं दुर्जना एव भूरिभारस्तेन मथितां परिक्लि[^१]ष्टाम् ।

पाथोनिधावावरणोदके पातुकां मग्नप्रायाम् । वदनानि सत्यमेवास्या वच इति

चनगर्भाणि मुखानि परितो विलोक्य ॥ २ ॥
 

 
ऊचे चाम्बुजभूरनयि सुराः ! सत्यं धरित्र्या वचो

नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
 

 
[^
]. 'पि' क. पाठः.