This page has not been fully proofread.

परशुरामचरितवर्णनम् ।
 
अथ महेन्द्रभूभृति तपस्यन् मुनिभिरभ्यर्थितः केरलभूमिं समुद्रमग्नामुद्धृत-
दशकम् - ३६]
 
वानियाह
 
१५१
 
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां
गोकर्णावधि सागरेण धरणींतताः ।
ध्यातेष्वासवृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा-
दुत्सार्योद्धृतकेरलो भृगुपते ! वातेश ! संरक्ष माम् ॥ ११ ॥ ४१ ॥
 
इति दत्तात्रेयपरशुरामयोरवतारवर्णनं परशुरामचरितवर्णनं च पत्रिंशं दशकं सैकम् ।
 
श्लोकार्थचिन्तासन्देहप्रश्नाख्यानोपपादनैः ।
हरिचिन्ताविनाभूतैः क्षणं सफलयामहे ॥
 
इति नारायणीयस्तोत्रव्याख्यायां
 
भक्तप्रियाख्यायां
 
नवमस्कन्धपरिच्छेदः ।
 
आदितः श्लोकसङ्ख्या ३७५.