This page has not been fully proofread.

१५०
 
नारायणीये
 
[स्कन्धः - ९
 
चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा
ध्यायन्तं छितसर्वदोषमवधीः सोऽगात् परं ते पदम् ॥ ८ ॥
 
लीलेति । लीलया बाहुसहस्रेण वारिते नर्मदाजले बलतः प्लवमानस्य
लङ्केशस्य गर्वमपहन्तीति तथा, येन कारागृहं प्रापितो रावणस्तेन श्रीमद्वाहुसहस्रेण
मुक्तानि बहूनि शस्त्राणि अस्त्राणि च येन तममुं कार्तवीर्य निरुन्धन् निवारयन् अथ
त्वयि तत्प्रयुक्ते वैष्णवे चक्रेऽपि विफले जाते त्वां हरिं बुद्धा श्रीहरिं ध्यायन्तमत
एवं छितसर्वदोषं नष्टकामक्रोधादिदोषं वृक्णबाहुसहस्रं कृत्वावधीनििहतवान् ॥ ८ ॥
 
भूयोऽमर्पितहेहयात्मजगणैस्ताते हते रेणुका-
मानानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रहः क्षत्रियान्
दिक्चत्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥ ९ ॥
 
भूय इति । अमर्पितैर्निजपितृबधमसहमानैर्नष्टशिष्टैर्हेहयात्म जगणैस्त्वद्विही-
नमाश्रमं प्राप्तैस्तव ताते जमदग्नौ हते हृदयमाघ्नानां सोरस्ताडनं विलपन्तीम् । पूर्व-
बद् ध्यानानीतरथायुधो दिक्चक्रेषु ये विपद्रुहः क्षत्रियास्तान् कुठारयन् कुठारेण
निघ्नन् विशिखयन् विशिखैर्निघ्नन् ॥ ९ ॥
 
`तातोज्जीवनकुन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
सन्तयिथ समन्तपञ्चकमहारक्तहढ़ौघे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ १० ॥
 
तातेति । पितुः शिरः कायेन सन्धाय मखैः पितरं जीवयन् काश्यपा-
दिष्वृत्विक्षु दिशन् ददत् पुनः साल्वेन युध्यन् कुमारैः सनकादिभिस्तद्वाक्येन
श्रीकृष्णोऽमुं निहनिष्यतीति ज्ञात्वा भवान् युद्धाच्छमितोऽभूत् ॥ १० ॥
 
* 'प्रातिपदिकाद् धात्वर्थे वहुलमिष्ट्रवच' इति णिच् । एवं विशिखयन्निति ।