This page has been fully proofread once and needs a second look.

१५०
 
नारायणीये
 
[स्कन्धः - ९
 
चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा

ध्यायन्तं छितसर्वदोषमवधीः सोऽगात् परं ते पदम् ॥ ८ ॥
 

 
लीलेति । लीलया बाहुसहस्रेण वारिते नर्मदाजले लतः प्लवमानस्य

लङ्केशस्य गर्वमपहन्तीति तथा, येन कारागृहं प्रापितो रावणस्तेन श्रीमद्वाबाहुसहस्रेण

मुक्तानि बहूनि शस्त्राणि अस्त्राणि च येन तममुं कार्तवीर्यं निरुन्धन् निवारयन् अथ

त्वयि तत्प्रयुक्ते वैष्णवे चक्रेऽपि विफले जाते त्वां हरिं बुद्धाध्वा श्रीहरिं ध्यायन्तमत

वं छितसर्वदोषं नष्टकामक्रोधादिदोषं वृक्णबाहुसहस्रं कृत्वावधीनििर्निहतवान् ॥ ८ ॥
 

 
भूयोऽमर्पिषितहेहयात्मजगणैस्ताते हते रेणुका-

माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।

ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्त्रियान्

दिक्चत्क्रेषु कुठारयन् विशिखयन् निःक्षत्त्रियां मेदिनीम् ॥ ९ ॥
 

 
भूय इति । अमर्पिषितैर्निजपितृधमसहमानैर्नष्टशिष्टैर्हेहयात्म जगणैस्त्वद्विही-

नमाश्रमं प्राप्तैस्तव ताते जमदग्नौ हते हृदयमाघ्नानां सोरस्ताडनं विलपन्तीम् । पूर्व-

द् ध्यानानीतरथायुधो दिक्चक्रेषु ये विपद्रुहः क्षत्त्रियास्तान् कुठारयन्[^*] कुठारेण

निघ्नन् विशिखयन् विशिखैर्निघ्नन् ॥ ९ ॥
 
`

 
तातोज्जीवनकुन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
सन्तयि

सन्तर्प्या
थ समन्तपञ्चकमहारक्तहढ़ौहृदौघे पितॄन् ।

यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः

कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ १० ॥
 

 
तातेति । पितुः शिरः कायेन सन्धाय मखैः पितरं जीवयन् काश्यपा-

दिष्वृत्विक्षु दिशन् ददत् पुनः साल्वेन युध्यन् कुमारैः सनकादिभिस्तद्वाक्येन

श्रीकृष्णोऽमुं निहनिष्यतीति ज्ञात्वा भवान् युद्धाच्छमितोऽभूत् ॥ १० ॥
 

 
[^
*] 'प्रातिपदिकाद् धात्वर्थे वहुलमिष्ट्रवटवच्च' इति णिच् । एवं विशिखयन्निति ।