This page has not been fully proofread.

परशुरामचारतवर्णनम् ।
आखेटोपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै-
स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
प्राणक्षेपसरोपगोहतचमृचक्रेण वत्सो हृतः ॥ ५ ॥
 
दशकम् – ३६]
 
आखेटेति । आखेटोपगतो मृगयाप्रसङ्गेनाश्रमं गतः । सुरगवीसम्प्राप्तैः
सुरभिसकाशाल्लब्धैः सम्पद्गणैर्दिव्यैर्भोम्यैः । पुरं माहिष्मतीं गतः । पुनर्दुर्मन्त्रिवाचा
गां तां सुरभि क्रेतुं स्वीकर्तुम् । कुधिया (तेन सचिवेन ? 1) गवाहरणं रुन्धतो मुने-
र्जमदग्नेः प्राणक्षेपो वधस्तेन सरोषया गया हतं चमूचक्रं यस्य तेन सचिवेन
सुरभेर्वत्सो हृतो माहिष्मतीं नीतः ॥ ५ ॥
 
१४९
 
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ संख्या समं
बिभ्रद् ध्यातमहोदरोपनिहितं चापं कुठारं शरान् ।
आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्मास्तुथाः सङ्गरम् ॥ ६ ॥
 
शुक्रेति । सख्या अकृतत्रणेन ध्यातेन महोदरेण गिरिशपार्षदेनोपनिहित-
मानीतं चापादिचतुष्टयं बिभ्रदारूढश्च सन् क्षितिपतावर्जुने । सम्प्रास्तुथा आर-
ब्धवान् ॥ ६ ॥
 
अथ सैन्यनाशे सत्यर्जुनः स्वयमेव श्रीपरशुराममापतदित्याह-
पुत्राणामयुतेन सप्तदशभिचाक्षौहिणीभिर्महा-
सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधनः ।
सद्यस्त्वत्ककुठारवाणविदलनिश्शेष सैन्योत्करो
भीतिमद्रुतनष्टशिष्टतनयस्त्वामापतद्धेहयः ॥ ७ ॥
 
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
श्रीमद्भाडुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धनमुम् ।