2023-02-16 08:52:20 by ambuda-bot
This page has not been fully proofread.
१४८
नारायणी
[ स्कन्धः - ९
अथ श्रीपरशुरामावतारमाह
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे !
रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ २ ॥
-
सत्यमिति । अर्जुनस्य वरमन्ते स्वेनैव वधम् । तच्छक्तिरर्जुनस्य शक्तिस्त-
न्मात्रेणानतम् ईषच्छमितब्रह्मोपद्रवम् ॥ २ ॥
लब्धाम्नायगणश्चतुर्दशवथा गन्धर्वराजे मना-
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितु-
स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद वर॑म् ॥ ३ ॥
लब्धेति । चतुर्दशवया एव लब्ध अर्थज्ञानपर्यन्तमधीत आम्नायगणो येन
गन्धर्वराजे चित्ररथे मनागीषदासक्तामत एव जलानयने सविलम्बां मातरं रेणुकां
प्रति इमां जहीति तातस्य जमदग्नेराज्ञामतिगच्छन्त्यातेक्रामन्तीति तथा तैः सोदरै-
ज्येष्ठैः समं सहेमां रेणुकां मातरं छित्वा निगृह्य पुनः शान्तात् प्रसन्नात् पितुः
सकाशात् तेषां मातुश्रीतॄणां च जीवनयोगं वरमापिथ प्राप्तवान् ॥ ३ ॥
पित्रा मातृमुदे स्तवातवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतत्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ४ ॥
पित्रेति । अथानन्तरं पित्रा जमदग्झिना मातू रेणुकाया मुदे प्रीत्यै स्तवेना-
हृतानीता वियद्धेनुः सुरभिर्यस्मिन् तस्मादाश्रमाद् भृगोः पितामहस्य गिरा प्रस्था
तस्य गौरीपतेः परशुं लब्ध्वा तेन गौरीप तिनोक्तम् । तस्मादेव महास्त्रादिकं प्राप्तः
सिंहमुखाद् रक्षितमकृतव्रणमुनिं मित्रं प्राप्य स्वाश्रममगमः ॥ ४ ॥
१. 'रान्' घ. पाठ:.