2023-04-08 10:31:13 by Padmavati
This page has been fully proofread once and needs a second look.
नारायणी
[ स्कन्धः - ९
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे !
रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ २ ॥
-
सत्यमिति । अर्जुनस्य वरमन्ते स्वेनैव वधम् । तच्छक्तिरर्जुनस्य शक्तिस्त-
न्मात्रेणानतम् ईषच्छमितब्रह्मोपद्रवम् ॥ २ ॥
लब्धाम्नायगणश्चतुर्दशवथा गन्धर्वराजे मना-
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितु-
स्तेषां जीवनयोगमापिथ वरं माता च तेऽदा
लब्धेति । चतुर्दशवया एव लब्ध अर्थज्ञानपर्यन्तमधीत आम्नायगणो येन
गन्धर्वराजे चित्ररथे मनागीषदासक्तामत एव जलानयने सविलम्बां मातरं रेणुकां
प्रति इमां जहीति तातस्य जमदग्नेराज्ञामतिगच्छन्त्
र्ज्येष्ठैः समं सहेमां रेणुकां मातरं छित्वा निगृह्य पुनः शान्तात् प्रसन्नात् पितुः
सकाशात् तेषां मातु
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृत
पित्रेति । अथानन्तरं पित्रा जमदग्
हृतानीता वियद्धेनुः सुरभिर्यस्मिन् तस्मादाश्रमाद् भृगोः पितामहस्य गिरा प्रस्था
तस्य गौरीपतेः परशुं लब्ध्वा तेन गौरीप
सिंहमुखाद् रक्षितमकृतव्रणमुनिं मित्रं प्राप्य स्वाश्रममगमः ॥ ४ ॥
[^१]. 'रान्' घ. पा