This page has been fully proofread once and needs a second look.

दशकम् - ३६]
 
दत्तात्रेयावतारवर्णनम् ।
 
नन्वीश्वरस्यापि यदि शरीरबन्धस्तर्हि संसारित्वप्रसङ्ग इति चेद् नेत्याह-
-
 
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं

विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या ।

नो चेत् स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे !

स त्वं सत्त्वैकमूर्ते ! पवनपुरपते ! व्याधुनु व्याधितापान् ॥ १० ॥
 
१४७
 

 
स इति । त स्वाधीनमायस्य सः ब्रह्मादिभिरप्यविज्ञातविभवः अयं

प्रदर्शितो मर्त्यावतारः खलु लीलाविग्रहपरिग्रह एव, नेतरवन्मायापरतन्त्रतया

संसार इति भावः । तदपि मर्त्याशेयशिक्षार्थम् । किन्तर्ह्यनेन शिक्षितं भवति, तत्राह-
-
एवमिति । कामातिसक्त्या विश्लेषार्तिः प्रियाविरहदुःखं धर्मातिसक्त्या निरागस्त्य-

जनमपि भवति, यथा सीतायाः । अतः कामादावतिसक्तिर्मा भूदिति । तदुपपाद-
यति –

यति--
नो चेदिति । स्वात्मा स्वस्वरूपमेवानुभूतिः प्रकाशो यस्य तस्य स्वप्रकाश-

संविद्रूपस्य परब्रह्मणस्तव मनसो विक्रिया रागद्वेषमोहादयः क्वनु, न भवत्येवेत्यर्थः ।

कालात्मकं चक्रं पाणौ स्वाधीनतया स्थितं यस्य तस्य त संसारापादने कालो

न प्रभुः । किन्तु सत्त्वैकमूर्ते! इति । भक्तानुग्रहाय शुद्धसत्त्वमयमूर्त्यङ्गीकार एवाय-

मवतार इति भावः । व्याधुनु अपाकुरु ॥ १० ॥
 

 
इति श्रीरामचरितवर्णनं पञ्चत्रिंशं दशकम् ।
 

 
अथ दत्तात्रेयावतारमाह
 
--
 
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो

जातः शिष्यनिन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया ।

दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-

नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ १॥
 

 
अत्रेरिति । दत्तो मयाहमिति भगवतोक्तत्वाद् दत्त इत्यभिधा यस्य स त्वं

समाधिनैरन्तर्यविघातकतया शिष्यनिबन्धतन्द्रितमनास्तन्निराकरणाय कान्तया सह

मधुमदविवशभावं प्रदर्श्य स्वस्थ आत्मारामश्चरन् हेहयमहीपालेन श्रीकार्तवी-

र्यार्जुनेन ॥ १ ॥