This page has not been fully proofread.

नारायणीये
 
मायाक्षोभेषु वैभीषणवचनहृतस्तम्भन : कुम्भकर्ण
 
*
 
सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ ६ ॥
गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्
ब्रह्म।स्त्रेणास्य भिन्दन् गलततिमवलामग्निशुद्धां प्रगृह्णन् ।
देव ! श्रेणीवरोज्जीवितसमर मृतैरक्षतैर्ऋक्षसङ्क-
र्लङ्काभत्र च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ७ ॥
 
१४६
 
[स्कन्धः -९
 
गृह्णन्निति । श्रेणीवरैर्हनुमदादिभिरुज्जीविताः समरमृता येषु ऋक्षसङ्खेषु।
देवश्रेणीनां वरैरुज्जीविता इति वा ॥ ७ ॥
 
प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी-
मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रादयः शुद्रपाशं
ताबद् वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ ८ ॥
प्रीत इति । अर्दयित्वा घातयित्वा स्वयमेव शूद्रपाशं कुत्सितं शूद्रमुनिं
प्रायः ॥ ८ ॥
 
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
 
सीतां त्वय्यानुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
साकं नाकं प्रयातो निजपद्मगमो देव! वैकुण्ठमाद्यम् ॥ ९ ॥
 
वाल्मीकेरिति । त्वत्सुताभ्यां कुशलवाभ्यामुगापिता मथुरा कृती रामा-
यणं काव्यं येन स तथा । कालार्थितो यमधर्मराजेन स्वर्गारोहणाय याचितोऽभूः ।
हेतोः सौमित्रिघातीति । अयमर्थः - रहस्संवादिनोरावयोर्द्रष्टारं त्य(क्ष्ये?क्ष्यामि)
इति धर्मराजस्य पुरतः कृतप्रतिज्ञो रामस्तदन्तरा प्राप्तं सौमित्रिं प्रतिज्ञाभङ्गभयात्
तत्याजेति । अथ स्वयं निश्शेषैर्देवांशैः पौरैश्च साकं नाकं स्वर्ग ततश्च
निजपदं वैकुण्ठम् । आद्यं ब्रह्माण्डोत्पत्तेः प्रागपि विद्यमानम् ॥ ९ ॥
 
* युध्यन्नित्यनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् ।